पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३०३ )
टीकाद्वयसहितम्।


 गौतमी-जादे, पडिहदं अमङ्गलं। सुहाईं दे भत्तुकुल्देवदाओ वितरन्दु ( इति परिक्रामति)[ जाते, प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु ]

 पुरोहितः--( राजानं निर्दिश्य ) भो भोस्तपस्विनः, असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।

 शार्ङ्गरवः-भो महाब्राह्मण, काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः ।

 भवन्ति नम्रास्तरवः फलागमै-
  र्नवाम्बुभिर्दूरविलम्बिनो घनाः।
 अनुद्धताः सत्पुरुषाः समृद्धिभिः
  स्वभाव एवैष परोपकारिणाम् ॥ १२ ॥


जाते, प्रतिहतममङ्गलम् । सुखानि ते भर्तुः कुलदेवता वितरंतु । अत्र भवान्पूज्यो वर्णाश्रमाणां रक्षितेत्यनेन भवदादीनामस्मदादीनां च सर्वदा पालनासक्तत्वम् । प्रागेव मुक्तासन इत्यनेन विनयातिशयः | वः प्रतिपालयतीति भक्त्यतिशयो व्यज्यते । महाब्राह्मणेति राजपुरोहितत्वात्तं प्रति मुनेरुक्तिरिति नानौचित्यम् । काममतिशयेनैतद्विनयातिशयत्वादिकमभिनंदनीयं स्तुत्यं यद्यपि तथापि वयमत्र मध्यस्था निस्पृहाः । एतदस्माकं वर्णनीयं न भवतीति भावः । वर्णनीयत्वाभावे च स्वाभाव्यं हेतुत्वेनोद्दिशति--कुत इति । भवन्तीति । तरवो वृक्षाः फलानामासमंताद्गमनं गमः प्राप्तिस्तैः । अनेन समृद्धिकाष्ठा तेषां द्योतिता । नम्रा अधोमुखा विनीताश्च भवंति । अत्र तरुशब्देन सामान्यविशेषभावसंबंधेन


प्राणिनामैश्वर्यबाहुल्यमुकम् । महाब्राह्मणेत्यादि। कामं यद्यप्येतत्प्रत्युत्थानादिकं राजपुरोहितत्वादभिनन्दनीयं तथापि वयमत्र प्रत्युत्थानादौ मध्यस्थाः पक्षपातरहिताः । वदाम इति शेषः । भवन्तीत्यादि । फलोद्गमैर्हेतुभिः दूरविलंचिनः अत्यर्थमवनताः समृद्धिभिरैश्वर्यैः अनुद्धता अनहंकारिणः नम्रा इति यावत् । एष नम्रत्वादिः ।


१ शुभानि इति क्व० पु० पाठः । २ फलोद्गमैः इति क्व० पु० पाठः ।