पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २६५ )
टीकाद्वयसहितम्।


 शकुन्तला-( सख्यौ प्रति ) हला, एसा दुवेणं वो हत्थे णिक्खेवो । [ हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ]
 सख्यौ–अअं जणो कस्स हत्थे समप्पिदो। (इति वाष्पं विकिरतः) [ अयं जनः कस्य हस्ते समर्पिताः(तः) ]
 काश्यपः -अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेष स्थि रीकर्तव्या शकुन्तला ।

( सर्वे परिक्राम्यन्ति )


च योग्यसमागम एव । प्रथममेव संकल्पितं मनसाभीप्सितं त्वं सुकृतैः पुण्यैर्मत्कृतैः स्वयं पूर्वजन्मोपार्जितैर्वात्मसदृशमभिजनगुणैः सौन्दर्येण च वयसा च । केवलं त्वद्भरणान्नापि तु त्रिभुवनभरणाद्भर्तारं गता प्राप्तासि । योग्यसमागमश्चिन्तितोऽपि पुण्यातिशयादेव भवतीति भावः । इयं पुरतो दृश्यमाना सुष्ठु कृतैः करणैर्निकटरोपणैरालवालादिपूरणैर्नवमालिका चूतेन सह संश्रितवती । अत्र नायकव्यवहारारोपात्समासोक्तिः । उभयोः प्रा करणिकत्वात्तुल्ययोगिता च । अत एवाह-संप्रत्यस्यां त्वयि वीतचिन्तो विशेषेण गतचिन्तः । योग्येन योग्यसमागमात्समालंकारः । परस्परोपक रणादन्योन्य(न्या?)लंकारो व्यङ्ग्यः । हेत्वनुप्रासौ । वृत्तमनन्तरोक्तम् । शकु न्तलापरिगृहीता सेति तस्याः संतोषोत्पादनार्थमस्यामिति पूर्वनिर्देशः । तेन क्रमप्रक्रमभङ्गः परिहृतो भवति ।’ त्वय्यत्र चाहमिति संप्रति ’ इतेि पठित्वा वा परिहर्तव्यः । अस्मिन्पाठे यथासंख्यालंकारः । एषा वनज्यो त्स्ना द्वयोर्ननु निश्चितं युवयोर्हस्ते निक्षेपः । इति परिणामः । अयं जनः


प्रदानेन लोकाविरुद्धसमुचितं कुर्यामिति प्रतिज्ञातम् । आत्मसदृशं कन्या वरयते रूप मिति न्यायेन त्वत्सौंदर्ययौवनकुलोचितम् । आत्मसदृशमित्यनेन यद्यप्यस्मदननुमत्या त्वं दुष्यन्तेन परिणीता तथाप्यनुरूपवरप्राप्तिहेतुना मयापि प्रीतिरेव कृतेति व्यज्यते । भर्तारं « पतिरेव स्त्रिया देवः ’ इति न्यायेन स्वस्त्रीत्वरूपलावण्यादिसाफल्यहेतुभूतं सहचरम् । अत्र भर्तुशब्दप्रयोगेण धर्मप्रजार्थमेव त्वं परिणीता नतु भोगार्थमिति


५ वां इति क्व० पु• पाठः । २ तुए दाणिं ( त्वयेदानीं ) इत्थधिकं क्० पु० ।