पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २६४ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला-( स्मृत्वा !) ताद, लतावहिणिअं वणजोंसिणिं दाव आमन्तइस्सं । [ तात, लताभगिनीं वनज्योत्स्नां तावदा मन्त्रयिष्ये ]
 काश्यपः -अवैमि ते तस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन ।
 शकुन्तला-( लतामुपेत्य ) वणजोसिणि, चूदसंगता वि में पच्चालिंग इतोगदाहिं साहाबाहाहिं । अज्जप्पहुदि दूरपरिवत्तिणी भविस्सं । [ वनज्योत्स्ने, चूतसंगतापि मां प्रत्यालिंगेतोगताभिः शाखाबाहाभिः। अद्यप्रभृति दूरपरिवर्तिनी भविष्यामि ]
 काश्यपः-

संकल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेय
मस्यामहं त्वयि च संप्रति वीतचिन्तः ॥ १३ ॥

इतः पन्थानं प्रतिपद्यस्व ।


प्रासश्च । तात, लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये । लताभगिनी मिति परिणामालंकारः। वनज्योत्स्ने, चूतसंगतापि मां प्रत्यालिङ्गेतोग- ताभिः शाखाबाहाभिः । एकदेशविवर्ति रूपकम् । चूतसंगतापीत्यत्र भर्तुः स्नेहादप्यधिकः सोदर्यस्नेह इत्यपिना ध्वन्यते । अद्यप्रभृति दूरम त्यर्थं परिवर्तनं व्याघुट्य गमनं यस्याः सा तादृशी भविष्यामि । संकल्पि- तमिति । मया तपोनिधिना सदा तवार्थे त्वत्प्रयोजननिमित्तम् । प्रयोजनं


सख्या प्रत्युत्तरं दत्तमिति भावः । स्मृत्वेत्यादि । अत्राचेतनलतालिंगनव्याजेन शकु न्तलायाः सार्वकालिकस्वहृदयस्थितचेतनरूपसखीविषयकस्नेहप्रकर्षः कैमुतिकन्यायेन ज्ञाप्यते । संकल्पितमित्यादि । तवारण्यवासिन्यास्तवेत्यर्थः । अर्थे कृते । अर्थे कृते च तादर्थ्ये ‘’ इत्युक्तत्वादनुरूपवरप्राप्त्ययोग्यस्थलवासिन्यास्तवार्थ इति यावत् । मयेति वीतरागत्वादरण्यवासितयानुरूपवरसंघटनार्थं नानादेशपर्यटनायेग्येन मयेति यावत् । प्रथममेव मेनकाविश्वामित्रपरित्यागानंतरं त्वदानयनसमय एवेत्यर्थः । संकल्पितमनुरूपवर


१ खु दे ( खलु ते ) इत्यधिकं क्व० पु० । २ संगतवती इति क्व० पु० पाठः ।