पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २६३ )
टीकाद्वयसहितम्।


 प्रियंवदा-ण केवलं तवोवणविरहकादरा सही एव्व । तुए उचट्ठिदविओअस्स तवोवणस्स वि दाव समवत्था दीसइ । [ न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थित वियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते ]

उग्गलिअदब्ध(ब्भ)कवला मिआ परिच्चत्तणच्चणा मोरा ।
ओसरिअपण्डुपत्ता मुअन्ति अस्सू विअ लदाओ ॥ १२ ॥

[ उद्गलितदर्भकवला मुग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रुणीव लताः ॥ ]


न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य संप्राप्तविरह स्यापि । न तु भूतवियोगस्य, न च भवद्वियोगस्येत्यपेरर्थः। तपोवनस्याचेतनस्यापि समवस्था दृश्यते । अवस्थामेव गाथिकया कथयति—उग्गलि एति । उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः। अपसृतपाण्डु पत्रा मुञ्चन्त्यश्रूणीव लताः । उद्गलिताश्चर्विता अपि । मुखाद्बहिर्निर्मि (र्निःसृ ) ता इत्यर्थः । णिचा दुःखातिशयो ध्वन्यते । उभयोस्तिर्यक्त्वेऽपि सहवासिनाभ्यासात्तथोक्तम् । अनेन वध्वाः पतिगृहगणने पितृकुलजनस्य दुःखातिशयो व्यज्यते । बन्धुव्यवहारसमारोपात्समासोक्तिः । उत्प्रेक्षानु


श्रमावस्थानलब्धशरीरपोषणादिव(ब)हुसौख्यानुभवकृतज्ञता प्रकाश्यते । उद्गलितेति । अत्र शकुन्तलाविश्लेषसमयजनितदुःखवशान्मृगाणां दर्भकवलभ्रंशकथनेन सार्वकालिक मुगस हवासाच्छकुन्तलाया दृष्टिचांचल्यसौभाग्यं ताटस्थ्येन द्योत्यते । एतावत्पर्यंतं विजातीय मृगैः सह समयक्षेपः इतः परं बहुपरिचारिकाजनसंकुलराजकुलसहवासात्सखीभूताय मम विस्मरणं त्वया न कर्तव्यमिति सख्युपालंभगर्भितोक्तिरपि ज्ञाप्यते । मयूराणां नर्ता(र्त) नपरित्यागकथनेन मयूरसहवासान्मंदगमनादिगतिविशेषः सूच्यते । लतानां पांडुपत्रापस रणकथनेन वसंतकालः सूच्यते । वसंतसमये लतानां पचेलिमपत्राणि भ्रश्यंति ततः सुकु मारांकुरपुष्पोद्गमोत्पत्तिः । अनेन विरहिजनासह्यस्मरोद्दीपक्र(कर)मृगमिथुनक्रीडामयूरनर्तनसप ल्लवपुष्पादिभूयिष्ठाश्रमावस्थित्यपेक्षया वसंतसमये पतिगृहगमनमेवोचितमिति ज्ञाप्यते । तेन च पूर्ववाक्ये आर्यपुत्रदर्शनोत्सुकाया अपि दुःखदुःखेन मे चरणौ पुरो मुखौ वर्तेते इत्यादिना पतिगृहगमनसमयजनितहर्षादिगोपनार्थं शकुन्तलाकथितस्य


१ उबहित ( उपहित )[उवट्ठिद (उपस्थित)] इति क्व० पु० पाठः । २ समवत्थं पेक्ख ( समवस्थां पश्य )

इति क्व• पु० पाठः। ३ मृगाः इति क्वo पु० पाठः ।