पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २६६ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला--ताद, एसा उडजपज्जन्तचारिणी गब्भमन्थरा मञवहू जदा अणघप्पसवा होइ तदा मे कंपि पिअणिवेदइत्तअं विसज्जइस्सह । मा एदं विसुमरिस्ससि । [ तात ,एषोटजपर्यं न्तचरिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयष्यथ । मा इदं विस्मरिष्यसि ।
 काश्यपः--नेदं विस्मरिष्यामः ।
 शकुन्तला-( गतिभङ्गं रूपयित्वा ) को णु क्खु एसो णिवसणे मे सज्जइ । ( इति परावर्तते ) [ को नु खल्वेष निवसने मे सज्जते ।


कस्य हस्ते समर्पितः ! तात, एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा सुप्रसन्ना भवति तदा मह्यं कमपि प्रिय निवेदयितृकं विसर्जयिष्यथ । गतिभङ्गं रूपयित्वेति । ऊरूद्धृत्तया चार्या । तल्लक्षणं तु--‘पार्ष्णिः पादस्य चेदग्रतलसंचरसंज्ञितः ! अन्यांघ्रिपृष्ठाभि- मुखो विपर्यासोऽथवा भवेत् ॥ आभ्यन्यजंघनमिता जङ्घा चेन्नतजानुका । तज्जेर्ष्यागतिभङ्गेषु चार्यूरूद्धृत्तसंज्ञिता ॥ ’ इति । को नु खल्वेष निवसने मे सज्जते । परावर्तत इति । अपक्रान्तया चार्या । तल्लुक्षणं तु बद्धां विधाय चारो चेदुद्धृर्त्योघ्रिं च कुञ्चितम् । पार्श्व विनिक्षिपेच्चारी मपक्रान्तां तदादिशेत् ॥ ऊरुद्वयस्य वलनं जङ्घास्त्रस्तिकसंयुतम् । भंक्त्वा वा स्वस्तिकं पादतलाग्रे मण्डलभ्रमम् ॥ कृत्वा पार्श्वगतं स्वं स्वं यत्र


पट्टमहिषीत्वं ज्ञाप्यते । अत एव दयितः कांतः । प्रिय इति शब्दो न प्रयुक्त इति ज्ञात व्यम् । सुकृतैः पुण्यविशेषैः । बहुवचनेनानेकजन्मांतरोपार्जितसुकृतविशेषा गृह्यन्ते । त्वं गतेत्यनेन सुकृतविशेषैरिव गता । न तु स्वयत्नविशेषैरिति यावत् । अनेन अनुरूप वरप्रदानुरूपस्वसंकल्पस्यानायासेन साफल्यादघटनाघटकं स्वस्य दैवानुकूल्यं सूच्यते । आश्रमपरित्यागlद्दुःखं न कर्तव्यं किं त्वनुरूपवरगृहगमनेन हर्ष एव त्वया कर्तव्य इति भावः । अस्यां नवमालिकायाम् अचेतनायामिति यावत् । त्वयि च चेतनायां त्वयि चेत्यर्थः संप्रति इदानीं वीतचिन्तः परस्परमुचिताश्रयलाभाच्चिंतारहितः । अत्र . चेतनाचेतनयोः शकुन्तलानवमालिकयोः समानबुद्धिकथनेन काश्यपस्य शकुन्तला दुष्यन्ताभ्यां प्रत्युपकारलक्षणरत्नधनपश्वादिलाभनैरपेक्ष्यं प्रतीयते ।तादेत्यादि । अनघ प्रसवा व्यसनरहितप्रसूतिरित्यर्थः ।प्रियनिवेदयितृकं शोभनज्ञापनपत्रलेखादिकम् ।


१ विसज्जेहि ( विसर्जय ) इति क्व० पु० पाठः । २ भवतु इत्यधिकं क्व० पु० ।

३ किं णु खु एसो पुणो पुणो वि निवसणं (किं नु खल्वेष पुनः पुनरपि

निवसनं ) इति क० पु० पाठः ।