पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


रनुपादानादेव न तद्विशेषणम् । अनुपादानं च प्रसिद्धावगतेस्तस्य । यदस्तु श्रूयमाणक्रियेऽस्मिन्कर्तृत्वे भवत्यादीनां प्रयोग आपद्यते । स च सामान्यानां तासां प्रयोगं विनापि ज्ञायमानत्वान्निषिद्ध आकरे । तेन विशेषणक्रियाप्रयोगार्थं यदः कर्मत्वं तच्च कर्तृप्रत्ययप्रयोगानुसार्येव । अन्यथा प्रक्रमभङ्ग आपद्येत । तेन च प्रत्येकवाक्य एकैकोपादानादेकत्र द्वयोपादाने प्रक्रम [ भङ्ग ] आशङ्कनीयः । यतोऽष्टवाक्यपरिपूर्त्यर्थमेतादृङ्निबन्ध इति तूक्तमेव । इदं च महतां दूषणोद्घाटनं स्वगुणोद्घोषणमिवात्यन्तमनुचितमपि व्युत्पित्सूनां बालानामूहापोहज्ञानेन व्युत्पत्तिमाधातुं कृतमिति ज्ञेयम् । ‘श्लोकैः काव्यार्थसूचकैः' इत्युक्तत्वादस्य तत्सूचकत्वमुच्यते । ईशः प्रभुर्दुष्यन्तो वोऽव्यादिति । ताभिः शरीरित्वा


किल खे जगाम । तद्र्ग्गमुद्दिश्य कुतो नु पूजां नान्दीति तां नाट्यविदो वदन्ति" । इति पूर्वरंगे रुद्रस्तु सर्वदा सन्निहितो विद्यते तं पूर्वरंगं प्रति पूजा क्रियते । तदुक्तं शाण्डिल्येन ‘‘पूर्वं रङ्गेंगहारे च साक्षात्सन्निहितः शिवः' इति । द्वितीया मगलाशीस्समन्विता श्लोकात्मिका बहुविधा । एका अष्टपदा इतरा द्वादशपदा अन्या अष्टादशपदा द्वाविंशतिपदेत्यादि । तदुक्तं कोहलेन - " मंगल्या शंखचक्राब्जकोककैरवशंसिनी । यत्राष्टभिद्वादशभिरष्टादशभिरेव वा । द्वाविंशतिपदैर्वापि सा नान्दीपरिकीर्तिता ” इति । एवं महावीरचरित्रे अष्टपदा, उत्तररामचरिते उन्मतराघवे अनर्घराघवप्रारंभे च द्वादशपदात्मिका वेणीसंहारे मदीये नैषधानंदे चाष्टादशपदा, बालरामायणे द्वाविंशतिपदात्मिका ! एवं लक्षणानुगुण्येन सर्वैर्नांदी प्रथिता । प्रकृतनांद्या अपि वाग्रूपत्वाद्पदनियमेन भवितव्यम् अत्र तद्वत्पदव्यवस्था न कृतेति चेत्पदनियमः कथ्यते । सर्वे पदशब्दस्य नानार्थतामाचक्षते खलु । तथा हि केचित्सुप्तिङन्तं पदं वर्णयंति । अपरे तु .लोकस्य तुरीयांशरूपः पादः पदमिति । अत एव नांदी प्रस्तावे द्वौ त्रयो वा श्लोकाः कार्या इति ब्रुवते । केचिद्पद्यते ज्ञायतेऽनेन पदार्धसंसर्ग इति व्युत्पत्त्या आकांक्षायोग्यतासन्निधिमत्पदकदंबात्मकं वाक्यमेव पदमिति वर्णयंति । तत्र च सुप्तिङंतपदपक्षे द्वादशभिरष्टादशभिरेव वेत्यत्र वाशब्दो विकल्पार्थ इत्यभिनवगुप्ताचार्यादयः कथयंति । तथा चोत्तररामचरिते भवभूतिना द्वादशपदा नान्दी कथिता । अन्ये तु वा शब्दं समुच्चयार्थं निगदंति । तथा च श्रीहर्षेण रत्नावल्यां विंशतिपदा नान्दी कथिता । अनर्घराघवप्रारंभे निष्प्रत्यूहमित्यादिना विकल्पपक्षमनुसृत्य द्वादशपदां नान्दीं प्रयुज्य समुच्चयपदार्थमप्यनुसृत्य विरमति । महाकल्प इत्यादि पद्यांतरमपि विरचितम् । प्रकृते वाशब्दस्य विकल्पार्थत्वमभ्युपेत्य वाक्यमेव पदमिति मतानुसारेणाष्टपदा नान्दी निर्दिष्टा । तदुक्तम्- "न पदं पदमित्याहुर्वाक्यार्थः पदमुच्यते " इति । प्रकृते अष्टमूर्तिनिर्देशवाक्यानि सप्त, एकस्मिन्नेव वाक्ये