पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २५४ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


|( ततः प्रविशति ’स्नानोत्तीर्णः काश्यपः ) 'काश्यपः -

यास्यत्यद्य शकुन्तलेते हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषाश्चन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः । पीड्यन्ते गृहिणः कथं नै तनयाविश्लेषदुःखैर्नवैः ॥ ६ ॥

'इति परिक्रमति)

हंसास्यलक्षणमुक्तं प्राक् । यास्यतीति । अद्यधुना शकुन्तला यास्यतेि । न तें याता नापि याति, अपि तु यास्यतीति मनसि कृतमात्र एवेति भावः । इति कृत्वा हृदयमुत्कण्ठया संस्पृष्टम् । समातिशयो द्योत्यते । अत्रोद्देश्यप्रतिनिर्देश्यप्रक्रम इन्द्रियाणां स्वावेषयाग्राहकत्वं च हृदयदोषादानमन्तरेण

न स्फुरतीति तत्पदोपादानम् । तेन नार्थपौनरुक्त्यम् ।

स्तंभिता या बाष्पस्य वृत्तिः प्रवृत्तिः । आरम्भ इति यावत् तया कलुष: स्वरभङ्गवान्कण्ठः । स्तम्भितत्वे कारणं पुरुषगतधैर्यम् । तेन निर्हेतुत्वं न शङ्क्यम् । हेत्वलंकारस्य गम्यत्वम् । प्रवृत्तस्य स्तम्भयितुमशक्यत्वाद् वृत्तिपदोपादानम् । एतेन स्फुटं वाचोऽप्रवृत्तिर्ध्वनिता । दर्शनं तत्तदिन्द्रियजं

ज्ञानम् । चिन्तया जडं स्वस्वविषयाग्राहकम् । मनसश्चिन्तयाग्रस्तत्वात्तेन
विना तदग्राहकत्वं तेषाम् | मम तावदादावेवेदृशमनिर्वचनीयमिदमनुभूयमानं स्नेहाप्रतिभावाद्वैक्लव्यं विह्वलिता। कीदृशो मम । अरण्यौकसो
वनवासिनः । अनेन तद्योग्यताप्यसंभावनीयेति व्यज्यते ।  गृहिणे

गृहनिवासिनः । तदुःखाभिज्ञा इति भावः । नवैः प्रथमोत्पन्नैः । द्विती


चित्ताकर्षणशीलं वपुराभरणयुक्तं चेद्रमणीयतायां किं वदाम इति भावः । यास्यतीत्यादि। शकुन्तला यास्यातेि गमिष्यति पतिगृहं प्रतीते वक्तव्ये विश्लेषसंभावनाजनितदुःखवशात्तदुच्चारणं

न निसृतमिति भावः । यास्यतीति भविष्यद्व्यपदेशेन भविष्यद्गमनं संभाव्य

अद्य सांप्रतं गमनात्पूर्वकल एवेति यावत् । हृदयं सर्वकरणानां प्रधानभूतं चित्तम् ।

उत्कण्ठया विश्लेषासहनतया संस्पृष्टमनुसक्तम् । आवेगयुक्तं जातमिति यावत् । अनेनांतरिन्द्रियस्यपारवश्यमुक्तम् । तत्सहकारितया प्रवृत्तनिवृत्तानामन्येन्द्रियाणां स्ववशता कुत

१ स्नानस्थितः इति क० पु० पाठः । ३ अहो इति क्व० पु• पाठः ।।

३ नु इति ई० पू० पाठः ।