पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २५५ )
टीकाद्वयसहितम्।


सख्यौ -हला सउन्दळे, अवसिदमण्डणासि । परिधेहि संपदं खोमजुअलं। [ हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व सांप्रतं क्षौमयुगुलम् ] (शकुन्तलोत्थाय परिधत्ते। )


यत्रारादौ पूर्वानुभूतत्वान्न तथा दुःखमिति भावः गृहिण इति व्यतिरेकः । वृत्यनुप्रासच्छेकानुप्रासौ। इतिश्ब्दोपादानाद्धेतुरपि । अनन्तरोक्तमेव वृत्तम् । “ दृष्टिर्जडा चिन्तया' इति पठित्वोद्देश्यप्रतिनिर्देश्यप्रक्रमभङ्गः परिहर्तव्यः । ‘दृष्टिज्ञानेऽक्ष्णिदर्शने’ इति कोशार्थः स एव । ‘कथं न तनया ? इति काक्वा योज्यम् । अवासितमण्डना समाप्तभूषणासि । परिधत्स्व धत्स्व सांप्रतं क्षौमयुगुलम् । जाते, एष त आनन्दपरिघाहिना ( ण ) चक्षुषा परिष्वजन्निवेत्युत्प्रेक्षा । गुरुः कण्व उपस्थित: प्राप्तः । आचारमः


इति भावः दर्शनमिति । इश्यतेऽनेनेति दर्शनं दृष्टिः । दर्शनेन समस्तसुन्दरवस्तुसाफल्य हेतुभूता दृष्टिरिति यावत् । कंठस्तंभितबाष्पवृत्तिकलुषं दुःखवशात् । स्वच्छस्यापि बाष्पस्य निस्सरणे सत्यंगस्यधिया धैर्येण कंठ एवोपरोधाद्बाष्पनिःसरणभावेन कलुषमाविलम् । बाष्पो नेत्रजलोष्मणः इति विश्वः । उचितेष्वपि पुरोवर्तिषु विषयेषु न प्रवर्तत इति भावः । चिंताजडं एतावंतमनेहसं तत्कृतवृक्षसेचननीवारवल्यादिषुधूपात्स्मरणेन राजगृहगमने सति पुनर्दर्शनाभावरूपचिंतया च जडं व्यापाररहितम् । अनेन सर्वकरणानां

स्वस्वषयव्यापारशून्यता सूच्यते । कंठस्तंभितबाष्पवृत्तिकलुष इत्यपि पाठः ।

अस्मिन्पाठे कंठशब्देन स्वर: कथ्यते । तदुक्तं ? स्तनभौगे स्तनभरः स्वरे कंठः प्रकीर्त्यते ’ इति । कंठः स्तंभितवाष्पवृत्तितया कलुष: सगद्गद इत्यर्थः । अरण्यौकसः अरण्यवासिनः। अनेन वीतरागतया सर्वविषयविमुखत्वं ज्ञाप्यते । गमेत्यनेन स्वस्येतर बिलक्षणरागद्वेषादिराहित्यमुच्यते । अत्र तावद्गहणमवधारणे । ममैवेत्यर्थ:। ईदृशमुक्त नानाप्रकारमिदमनुभवैकवेद्यम् । वैक्लव्यं शोकवशादिन्द्रियादिपारवश्यम् । पुत्रीविश्लेष समये कस्य वा वैक्लव्यं नास्तीत्यत आह स्नेहादिति । अनेन जन्यजनकभावसंबंधो निरस्यते

किन्तु शरोरपोषणादिमात्रस्नेहाद्धेतोरिति यावत् । अत एव शकुन्तला’ यास्यतीति

प्रयुक्तं न तु पुत्रीति। तथा प्रयोगे सति पितुः पुत्र्यां स्नेहस्य सर्वलोकप्रसिद्धत्वात् तदभिधानमनुचितंस्यात् ।गृहिणः गृहस्थाः अनेन प्रत्ययविशेषेण सर्वविषयशीला इति कथ्यन्ते ।

स्यात् । पृहिणः गृहस्थाः अनेन प्रययविशेषेण सर्वविषयशला इति कथ्यन्ते ।

नवैर्नूतनैरनावृत्तैरिति यावत् । तनयाविश्लेषदु:खैः धर्मप्रजार्थं स्वीकृतभार्याजनितपुत्री विश्लेषजनितदेहशोषणकरदशाभेदैदु:र्खैरिति बहुवचनेन संस्कारपर्यंतं विवेकराहित्येन मरणसप्राचीनदशानुभव:सूच्यते । कथं असंख्यातानिर्वचनीयप्रकारेण पीड्यन्ते बाध्यन्ते ।