प्रथमःगौतम, एवृद्दि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः
द्वितीय:-तथा ( इति निष्क्रान्ते )
संख्यौ–अए, अणुवजुत्तभूसण अअं जणो । चित्तकम्मप अएण अङ्गेसु दे आहरणविणिओअं करेह्म। [ अयेअनुपयुक्तूभ्रूषणोऽयं
जनः। चित्रकर्मपरिचयेनाङ्षुगेषु त आभरणविनियोगं कुर्वः ]
शकुन्तला-जाणे वो णेउणं। [ जाने वां नैपुणम् ] (उभे नाट्येनालंकुरुत: )
केचनात्र समादधते । पूर्वार्धे वृक्षाणां सेवासूचनमुत्तरत्र वनदेवतानामिति
तत्कृर्तृकत्वमेवोचितामाते तन्न सम्यक् । करणत्वेनापि तदुपपत्तेः ।
अन्यथा पूर्वार्धवत्करणानुपादानेऽपे तत्संभवात् । किं च पूर्वत्र ९ वनस्पतेिभ्यः पुष्पाण्याहरत ' इत्युत्तरत्र काश्यपाय वनस्पतिसेवां निवेदयावः ?. इति शिष्ययोर्वाक्येन विरोधः स्यात् । अतः पूर्वोक्तमेव न्याय: । शब्दानुपादान एकपर्वमात्रः प्रत्ययः स्याद्गशब्दोपादानेऽपि
तु पर्वत्रयमपि प्रतीयत इति नामकरत्वम् । तेन विना
दानासंभवादौपासंगतेश्च । अनयाभ्युपपत्यानुग्रहेण सूचिता भर्तुरैहेऽनुभावितव्या राजलक्ष्मीरितेि । “ प्रविश्योपायनहस्तौ ’ इत्यादिनैतदन्तेनोदाहरणमङ्गमुपाक्षिप्तम्। तल्लक्षणं तु-‘यत्तु सातिशयं वाक्यं तदुदाहरणं
स्मृतम् ? इति । वृक्षाणां चेतनवद्वनदेवताहस्तैरलंकारदानवचनात्सातिशयत्वप्राप्त्याशानुगमत्वं प्रकटमेव । अनुपयुक्तभूषणोऽधृतालंकारोऽयं जनः । चित्रकर्मपरिचयेनार्थेष्वाभरणविनियोगं कुर्वः ! जाने
वां नैपुणम् । नाट्येनेते कर्तरीमुखेनालक्तकेन पादरञ्जनम् । हंसास्येनच्युतसंदंशेनोर्मिकापरिंधापनम्।
एवमन्यदप्यनुसंधेयम् । कर्तरीमुखलक्षणं- यथा–’ अश्लिष्टा मध्यमा पृष्ठे संस्थिता तर्जनी यदा । त्रिषता
कस्य हस्तस्य तदा स्यात्कर्तरीमुखः। अलक्तकादिनां पादरञ्जने ’ इति ।
१ अवतीर्णाय इति क्री० पु० पाठः! २ कण्वाय इति इ० पु• पाठः । ३ अनसूया-सहि
( साख } इति क० पु० पाठः । ४ तहवि ( तथापि ) इत्यधिंक क० पु० ।
५ दाणिं ( इदानीं ) इत्यधिकं व० पु ।