पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २५१)
टीकाद्वयसहितम्।


(प्रावेश्योपायनहस्तौ ) ऋषिकुमारकौ‌-इदमलंकरणम् । अलंक्रियतामत्रभवती । सर्वा विलेक्य विस्मिताः। गैौतमी‌-वच्छ णारअ, कुदो एदं । [ वत्स नारद, कुत एतत् ] प्रथमःतातकाश्यपप्रभावात् गैौतमी‌-किं माणसी सिद्धी । [ किं मानसी सिद्धिः ] द्वितीयः-न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ता: शकुन्तलाहेतोर्वैनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं

क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं निष्ठयूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् । अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै- दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ ८ ॥


इत्यर्थः । आभरणोचितमित्यनेन सूचितमाभरणम् । तद्वारा तदानयनकर्तृणामपि

सूचनमार्थम् । इयूषिकुमारयोः प्रवेशः। विस्मिता इतेि |

अकस्मादलंकारदर्शनेन तेषां चातिरमणीयत्वदर्शनेन । वत्स नारद, कुत एतत् । किं मानसी सिद्धिः । न खल्विति पूर्वस्योत्तररूपं भिन्नं वाक्यम् । क्षौममिति । केनचित्तरुणेन्दुवत्पांडु श्वेतम् । मङ्गलकर्मणि साधु माङ्गल्यम् । अनुपहतदशं गोरोचनाचित्रितपर्यन्तं युगलं चेत्यर्थः।

क्षौमेति । केनचितसृणावॄक्षेण मांगल्यं मंगलार्थं क्षौममाविष्कॄतमुद्भावितं नतु शोभार्थम्। प्रथमेंऽके ‘‘इयमधिकमनोज्ञा वल्कलेनापि तन्वी’ इति वक्कलस्यापि शोभाकरत्वकथनानात्।

किंतु राजगृहगमने स्त्रियाः वल्कलधारणस्यामंगलत्वान्मंगलार्थमेव अतः युकं मांगल्यमिति । इन्दुपांड्विति विशेषणेन नैर्मल्यकथनादितः पूर्वे केनाप्यनुपभुक्ततया क्षालननैरपेक्ष्यादविलंबेन धर्तव्यमिति ज्ञाप्यते । केनचित्तरुणा चरणोपभोगसुलभः चरणोपभोगाय

१ ततः प्रविष्टं इति क० यु० पाठः १२ सिी ( सृष्टिः ) इति के० पु० पाठः ।

३ काश्यपेन इत्यधिकं क० पु० 1 ४ आज्ञापितः इति के० उ० पाठः।।