पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २५२ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।

प्रियंवदा--( शकुन्तलां विलोक्य ) इला. इमाए अभुषवचीए सूइआ दे भतुणो गेहे अणुर्हदव्या राअलच्छि त्ति । [ हला, अनयाभ्युपपत्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीरिति]

शकुन्तला व्रीडां रूपयति)

अतएवाग्रे ‘ परिधेहि संपदं खोमजुअलं ? [ इति ]। क्षौमं दुकूलमाविष्कृतं

दत्तम् । केनचित्तरुणेत्यनुषज्यते । चरण उपभोगो रञ्जनादिस्तत्र

सुलभो योग्यः । अनेन विशेषणेनानेकप्रयत्नजनितचरणालेपनयोयतायत्नसिद्धेति ध्वनितम् । लाक्षारसोऽलक्तद्रवो निष्ठयूतो दत्तः । पूर्वोक्तरीत्यात्राप्श्लेषपरिहारः यात्रायद्वीलपरिहारः । अन्येभ्यो वृक्षेभ्यः किसलयोद्भेद उद्भिद्यमाना: पल्लवा: । लक्षणया रक्ततरत्वकोमलत्वादि व्यङ्ग्यम् । तत्प्रतिद्वन्द्विाभिस्तत्प्रतिस्पर्धिभि:। तादृशैरिति यावत् । पर्वभागं मर्यादीकृत्योत्यितैर्वनदेवताकरतलैराभरणानेि

दत्तानीत्यन्वयः अत्र वनदेवताकरतलदत्ताभरणेन

तस्या आजन्मोवैधव्यसौभाग्ये आभरणानामनर्घत्वादि च व्यज्यते । तत्किसलयेति। विशेषणावकाशदानाय तलग्रहणम् । आपूर्वेतिविशेषणेन वनदेवतानामदृश्यत्वं सूचयता करतलभागस्यैव दृश्यत्वं वदता तासामेव करणत्वमस्तु किंतद्धस्ततलैरिति शङ्का निरस्ता । स्वभावोक्तिपर्यवसितेन तकिसलयेति तद्विशेषणेन तेषूद्भेदयोग्यता ध्वनिता । उपमयोः संसृष्टिः। श्रुतिवृत्यनुप्रासौ । अर्थावृत्तिहेतुश्च शार्दूलविक्रीडितं वृत्तम् । “ अन्यैस्तैः’

इति पठित्वा कर्तृप्रक्रमभङ्गः परिहर्तव्यः करतलैरित्यस्य करणत्वा

पादालंकरणाय सुलभः सुखेन लभ्यः अनुरूपकांतेन सह क्रीडानां येग्य इति यावत् । अनेनानुरूपवरप्राप्तिर्वनदेवताभिरपि ज्ञाप्यत इति व्यज्यते । लाक्षारसः वाचकरसः निष्ठ्यूतः उद्गीर्ण: । अन्येभ्य इतरेभ्यः आपर्वभोगोत्थितै: पर्वभागपर्यन्तं निस्सृतैः वनदेवताकरतलैः।

पुनः कीदृग्विधै: तात्क्रिसलयोद्भिदप्रतिद्वंद्विभिः तेषां वृक्षाणां किसलयोद्भेदस्तेषां

प्रतिद्वंद्विभिः प्रतिपक्षै: सदृशैरिति यावत् । आभरणानीति बहुवचनेन तत्तदवयवोचितभूषणविशेषाः

कथ्यते । अनेन नैपथ्यशृंगार: सूचितः । भूषणादिराहित्येऽपि