शकुन्तला-साअदं में सेहीणं। इदो णिसीदइ। [स्वागतं मे
सख्योः । इतो निषीदतम् ]
उभे--( मङ्गलपात्राण्यादाय । उपविश्य ) हला, सज्जा होहि ।
जाव मङ्गलसमालम्मणं विरएम । हला, सज्जा भव । यावन्मङ्गलसमालम्भनं विरचयावः |
शकुन्तला-इदं पि बहु मन्तव्यं। दुल्लहं दाणिं मे सहीमण्डणं
भविस्सदि त्ति । ( इते बाष्पं विसृजति) [ इदमापि बहु मन्तव्यम् ।
दुर्लभमिदानीं मे सखमण्डनं भविष्यतीति |
उभे--सहि, उइयं ण दे मङ्गलकाले रोइदुं।( इत्यश्रूणि प्रमृज्य
नाट्येन प्रसाधयतः ) [ सखि, उचितं न ते मङ्गलकाले रोदितुम् ॥
प्रियंवदा–आहरणोइदं रूवं अस्समसुलहेहिं पसाहणेहिं विप्पअरीअदि । आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ]
भर्तुर्बहुमता भव | सुखमज्जनं सुस्नानं ते भवतु । स्वागतं मे सख्योः । इतो निषीदतम् । सज्जा भव । वन्मङ्गलसमालम्भनं विरचयावः । इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यतीति । उचितं न ते मङ्गलकाले रोदितुम् । अनेन भविष्यद्वियोगः सूचितः। अश्रूणि विसृ ( प्रमृ ) ज्येति त्रिपताकानामिकया नेत्रदेशगतया । त्रिपताकलक्षणमुक्तं प्राक् । नाट्येनेति त्रिपताकानामिकया तिलकं पार्श्वमुखसंदंशाभ्यामुभयकरस्थाभ्यां मालाभ्रमराभ्यां तालपत्रद्वयं कर्णपूरद्वयमियादि । तल्लक्षणानि तु---‘ अरालागुष्ठतर्जन्यौ लग्नाग्रे निम्नतां गतः । किंचिच्चेतनमध्यः स्यात्तदा संदंश उच्यते । स त्रेधा स्यादग्रतश्च मुखतः पाश्र्वतः क्रमात् । प्राङ्मुखः पार्श्वभुखः इत्यस्य लक्षणम् ॥ ' इति । अंशरूलक्षण मुक्तं प्राक्-- अंगुष्ठमध्यभांगुल्यौ श्लिष्टाग्रे तर्जनी नता । यत्रोर्वे विरले शेषं मकरो भ्रमणं भवेत् । कर्णपूरै तालपत्रे कंट्कोद्धरणादिषु । ’ इति । आभरणोचितं रूपमाश्रममुलभैः प्रसाधनैर्विप्रकार्यते । विकृतं क्रियत
१ प्रिअसहिणं ( प्रियसखीभ्यां ) इति व० पु० प० । २ सङदले ( शकुंतले ) इल्य-
धिकं क०पू० । ३ दे वझे ( ते आवां ) इत्यधिकं क० पु० १ ४ ६ ( खलु ) इति
व० पु० पाद० २५ दाब ( तावत् ) इति क° पु० पाठ० । ६ विकिरति इति
क्ख ० पु० पाठः ।