पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४६ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 अनसूया-अह केण सूइदो तादकस्सवस्स वुत्तन्तो । [ अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ॥

 प्रियंवदा-अग्गिसरणं पविद्वस्स सरीरं विणा छन्दोमईए वाणिआए । ( संस्कृतमाश्रित्य ) [ अग्निशरणं ग्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ]

दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः।
अवेहि तनयां ब्रह्मन्नग्नेगर्मी शमीमिव ॥ ४ ॥


अनेन तस्याः कृतकृत्यता ध्वनित । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयमीति ? ‘ वर्तमानसमीप्ये-' इति लट् । अथ केन सूचितः कथितस्तातकाश्यपस्य वृत्तान्तः | अग्निशरणमाग्निहोत्रगृहम् ! ‘शरणं गृहरक्षित्रोः ' इत्यमरः । प्रविष्टस्य शरीरं विनशरीरिण्या छन्दोमय्य वाण्या सूचित इत्येव (त्यर्थः) संस्कृतमाश्रित्येति । उक्तं च मातृगुप्तचार्यैः-“योज्यं विदूषकोन्मत्तवार्तापसयोषिताम् । नीचानां पण्डकानां च नीचग्रहकारिणाम् । विद्वद्भिः प्राकृतं कार्ये कारणात्संस्कृतं क्वचित् । इति । अत्र चाशरीरिणवाण्यनुवाद एव कारणम् । यथास्थितस्यैवानुवाः स च संस्कृतमन्तरेण न संभवतीति संस्कृताश्रयणम् । दुष्यन्ते नेति । नामानुकीर्तनेन सोमवंशोद्भवत्वेन किमष्यामिजायमौदार्यघैर्य


वीप्सा प्रस्तुतकथनीयशेषं कथयेत्यर्थः । दुष्यतेनेति । दुष्यन्तपदेन राजर्षिकन्यायाः शकुन्तलयाः राजर्षिवरगामितायाः युक्तत्वाद्राजर्षिदुष्यन्तपारिग्रहादनुरूपवरप्राप्तिः सूच्यते । तर्ह्यस्मदनुमत्या कथं दुष्यन्तेन पर्गृहातेत्यद अह आहितं निषिक्तं तेजो वीर्ये दधानामिल्यनेन गान्धर्वविवाहः सूचितः । गान्धर्वविवाहस्य पित्राद्यननुमत्यापि परस्परसंकेतिततात्कालिकसंभेगस्य युक्तत्वात् । सद्योगर्भधारणेन दुष्यन्तस्यामोघवीर्येत्वं ज्ञाप्यते । ब्राह्मर्षादिविवाहृविधिविवाहितायाः कन्यायाः ऋतुसंगमनादिकालांतरेऽपि संभोगस्थ युक्त्वादिति भावः । भुवः भूमेः भूतये समृद्धय इत्यनेन शकुन्तला एव पमहिषीत्वं तज्जनितपुत्रस्यैव साम्राज्यमिति च ज्ञाप्यते । धर्मग्रजार्थमेव परिणीता न तु भौगार्थमिति भावः । किंच भुवो भूतय इत्यनेन जनिष्यमाणो गर्भः पुत्रः न तु पुत्रीति व्यज्यते । स्रिया राज्याधिकाराभावादिति भावः । भूशब्देन भूमिस्थजना लक्ष्यंते


१ अं ( अब ) इत्याधिकं क० पू० ।