पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २४५ )
टीकाद्वयसहितम्।


 अनसूया--सहि, कहं एदं [सखि, कथमेतत् ]
 प्रियंवदा---सुणाहि | दाणि सुहसेइदपुच्छिआ सउन्दलासआसं गदाह्नि । तेदो जाव एणं लज्जरणदमुहिं परिस्साजिअ तादकस्सवेण एव्वं अहिणन्दिदं ? दिट्टिआ धूमाउलिददिट्टिणो वि जअमाणस्स्स पाअए एव्व आहुदी पडिदा ? वच्छे, सुसित्सपरिदिण्णा विज्ज विअ असोअणिज्जा संवुत्ता । अज्ज एव इसिरक्खिदं तुमं भत्तुणो सआसं विसज्जेमि त्ति । [ श्रृणु । इदानीं सुखशयनपृच्छिका शकुन्तलासकाशं गतास्मि। ततो यावदेनां लज्जावतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलिप्तदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से, सुशिष्यपरिदत्ता विधेवाशोचनीया संवृत्ता । अद्यैव ऋषिगक्षितां त्वां भर्तुः सकाशं विसर्जयामीति ]


र्यागतमङ्गलं निर्वर्तयितुं संपादयितुम् । ' कौतुकं नमेणच्छायामुत्सवे कुतुके मुदि । पारम्पर्यागतख्यातमङ्गलोद्वाहमूत्रयोः ॥ ’ इति हैमः । कथमेतत् । श्रृणु । इदानीं सुखशयनपृच्छिका शकुन्तलाया सकाशं गतास्मि । प्रातर्गत्वा रात्रौ तव लुखशयनं जातमिति या पृच्छाति सा सुखशयनपृच्छेत्युच्यते । तेन प्रातः सुखशयनं प्रष्टुं गतास्मत्यिर्थः । ततो यावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दतम् | दिष्टया दैवेन धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । अनेन दृष्टान्तेन स्वस्य कृतकृत्यता ध्वनिता । ममायासं विनैव वाञ्छितस्थले संबन्धो जात इत्यर्थः । वत्से, सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता


कौतुकं प्रयाणमंगलं निर्नर्तयितुं ममापयितुन् । ततस्तत इति श्रोतव्यौत्मुक्यद्यौतिका


१ सुहसइदपुच्छिआ सउंलाएस ( सुखशयितपृच्छिका शकुंतलायाः ) इति

क० पु० पाठः । २ अनसूय-तदो तदो ( ततस्ततः।) प्रियंवदा-इत्यधिक

क० पु० । ३ घअणं ( वदनां ) इति क० पुo पाठः । ४ धूमावरूत्थ

( धूमावरुद्ध ) इति क० पु० पाठः । ५ । इत्यधिकं क०

पु० १६ राएसिपरिगहीदं ( राजर्षिपारिगृहीतां ) इति क०