पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २४७ )
टीकाद्वयसहितम्।


 अनसूया-( प्रियंवदामाश्लिष्य ।) सहि, पिअं मे। किंदु अज्ज एव्व सउन्दला णीअदित्ति उकण्ठासाहरणं परितोसं अणुहोमि । [ सखि, प्रियं मे। किंत्वद्यैव शकुन्तला नीयत इयुत्कण्ठासाधारणं पारितोषमनुभवामि |
 प्रियंवदा-सहि, वअं दाव उक्कण्ठं विणोदइस्सामो । स तवस्तीिणी णिव्वुदा होदु)।[ सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः। सा तपस्विनी निर्वृता भवतु |
 अनसूया-तेण हि एदसिंस चूदसहावलम्विदे पारिएरसमुग्गए एतण्णिमित्तं एव्व कालन्तरक्खमा णिक्खित्ता मए केसरमालिआ।


विनयादिगुणसंपन्नत्वं च व्यज्यते । भुवः भूतय ऐश्वर्यायेति । अनेन तस्य भाविचक्रवर्तित्वं ध्वन्यते । आहितं निषिक्तं तेजो दूधानाम् । तेज इत विषयनिगरणेनातिशयोक्तिः । तेन तेजस्रयरूपत्वं गर्भस्य ध्वनितम् । तनयामवेहि जानीहि। अग्निगर्भा शमीमिवेति सहजपूतत्वं ध्वनितम् । उपमानुप्रासौ । अनेन भार्गलक्षणभङ्गमुपक्षिप्तम् । तल्लक्षणं तु-‘ भूतार्थवचनं चैष मार्ग इत्यभिधीयते’ इति । अशरीरिण्या वाचा सत्यार्थकथनात्प्राप्त्याशानुगमत्वम् । प्रियं मे तेनोत्कण्ठा परितोषश्च । उभयमप्यनुभवाभीयर्थः ! वयं तावदुत्कण्ठां विनोदयिष्यामः परिहरिष्यामः । सा तपस्विन्यनुकपार्हा निर्वृता सुखिता भवतु । ! तपस्वी चानुकम्पार्हः ' इत्यमरः । तेनैतस्मिश्वूतशाखावलम्बिते नालिकेरस्य समुद्भके संपुटके तन्निमित्तमेव कान्तरक्षमा निक्षिप्ता मया केसरमालिका वकुलमाला । तदिमां हस्त-


तत्समृद्विकथनेन उत्पत्स्यमानस्य भरतस्य षष्था ष्ष्ठांशकरप्रहाद्युचितराजधर्मानुष्ठानन्यायप्रवृत्तित्वं सूचितम् । तेन च “ सुराज्ञि देशे राजन्वान् ’ इत्यभिधानात् भुवो राजन्वतीत्वं ज्ञापितम् । शमीमिवेति । शम्युपमानेन यज्ञादिकर्मार्हपत्नीत्वं व्यज्यते । अग्निगर्भामित्यनेन भरतस्य तेजस्वित्वेन महारथतया चप्रतिरथत्वं गम्यते । हे ब्रह्मन् सकलवेदांतादिशास्त्रार्थे तात्पर्यवेदिन् ब्रह्मर्षे इति यावत् । अनेन ब्रह्मन्निति संबोधनेन ब्रह्मर्षेः काश्यपस्य राजर्षिकन्यायाः शकुन्तलायाश्वसवर्णत्वं सूचितम् । अनुरूपराजर्षिकृतगान्धर्वविवाहस्य शास्त्रीयत्वाच्छापो न देयः । किंतु बहुमतिरेव कर्तव्येति भावः। अवेहि एतावन्तमनेहसं त्वत्कृतपोषणादिरूपप्रयासस्यानायासेन सफलत्वमवगच्छ । अत्र प्राकृतभाषैच वक्तव्या कथं संस्कृतभषाश्रयणमति नाशंकनीयम् । कार्यवशाद्भाषाविपर्ययस्याप्युक्तत्वात् । तदुक्तं कार्यतश्वोत्तमादीनां कार्यो भाषाधिपैः