पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २२३ )
टीकाद्वयसहितम्।


मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥२६॥


मुहुरिति । मुहुर्वारंवारमंगुल्या तर्जन्या संवृत आच्छादितोऽधरोष्ठो यत्र तत् । प्रतिषेधाक्षराणि मा मालमित्यादीनि तेषां यद्वैक्लव्यं स्फुटमनुच्चारणं तेनाभिरामम् । विक्लवशब्दो धर्मपरः । अंसे विवर्तितुं शीलं यस्य तत् । वलिते पक्ष्मले अक्षिणी यस्याः सा पक्ष्मलाक्षी तस्या मुखम् । अनेन चुम्बनार्थमुन्नमने योग्यता ध्वनिता । कथमपि महता कष्टेन । उन्नमितं चुम्बनार्थमूर्ध्वीकृतम् । न चुम्बितम् । तु पश्चात्तापे । तेन तावन्मात्रचुम्ब- नलाभेनापि कृतकृत्यता स्यादिति ध्वन्यते । स्वभावोक्तिः । श्रुतिवृत्यनुोप्रासौ । कथमपीत्यस्यार्थं प्रति विशेषणत्रयार्थस्य हेतुत्वोपादानात्काव्य-


भेदाः सूच्यन्ते । भयेत्यनेनानुभवविषयतोक्ता । मुहुरंगुलिसंवृताधरोष्ठमिति । अंगुलीभिः संवृतः सम्यक् प्रच्छादितः अधरोष्ठः यत्र तत्तथोतम् । अंगुलीभिः संवृत इत्यनेन अधरचुंबनप्रतिबंधकतिरस्कारे सुकरत्वं सूचितं न तु हस्तसंवृताधरोष्ठमित्युक्तम् । तेनानुरागातिशयान्भानजनितबाह्यकोपः सूच्यते । अनेन संवरणांगुल्यपकर्षणकार्यस्य तत्कारणभूतकेशग्रहादयश्च व्यज्यंते । मुहुर्बहुश इत्यनेन यदा एकेन हस्तेन कुचं जृहीत्वा अन्यहस्तेनांगुलीरपनुद्य तेनैव हस्तेन नीवीमोचनं क्रियते । तन्मध्ये क्षणे क्षणे अंगुलीभिरधरसंवरणमिति भावः । तेन चाधरसंवरणांगुल्यपनयनसमये तदनुनयार्थं बहुविधचाटुकरणचातुरी सूच्यते । यावता कालेन सुरतप्रस्तावांगीकारः तावदविकलमेकेन हस्तेन केशग्रहं कृत्वा चाटूक्त्यानुनीयान्यहस्तेनांगुलीरपनुद्य चुंबितमिति भावः । अनेन स्फुरिताख्यः कन्याचुम्बनविशेषः सूचितः । यदाह वात्स्यायनः " निमित्तं स्फुरितं घटितमिति त्रीणि कन्याचुम्बनानि । तत्र वदनप्रवेशितमोष्ठमवग्रहीतुमिच्छंती स्पंदयंती स्वमोष्ठं नोत्तरमुत्सहत इति स्फुरितम् ” इति । प्रतिषेधाक्षरचिक्लवाभिरामं प्रतिषेधाक्षरैः परस्परविमर्दजनितानंदातिशयवशान्मामेत्यादिवचनैर्विक्लकंविह्वलं परवशमिति यावन् । अभिरामं भ्रूभंगाधरस्पंदनखेदविदूनां स्वसंपर्कसंभूतसुखजनितत्वाद्रमणीयम् । अनेन प्रतिषेधाक्षरकथनेन हस्तयोर्व्यापाराभावाद्गाढाश्लेषः सूच्यते। तेन च स्तनमुकुलादिसर्वांगस्पर्शनं सूचितम् । अत्रापि मुहुरित्यनुषज्यते तेन च देशस्य विविक्तया निरर्गलसुरतक्रियानुकूलबहुविधस्वरविशेषवद्वाग्विजृंभणचातुरी ध्वनिता । अंसयोर्विवर्तति । असंयोर्विवर्तते विवलत इत्यंसविवर्ति । एतदंसविवर्तनं गुरुजनभीत्या दंतक्षतकरणपरिहारार्थमित्यवगन्तव्यम् । अत्रापि मुहुरित्यनुषज्यते । अनेन संमुखे सति अधरचुम्बनं तत्परिहारार्थमंसयोर्विवर्तने सतेि कपोलचुंबनं तदुभयपरिहारार्थे मुहुरिति भावः। तेन निरतिशयानंदानुभवाद्वचसा निषेधं कर्तुमशक्यत्वं सूचितम् । अत एव मुखमित्युक्तं