पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २२४ )
[ तृतीय
अभिज्ञानशाकुन्तलम् ।


नत्वधरमिति । मुखस्यैव बहुचुबनविषयत्वात् अत एव पक्ष्मलक्ष्या इत्यनेन नेत्रचुंबनमपि सूचितम् । अनेन संभोगः सूच्यते । तदुक्तं भवप्रकाशे ‘‘कामोपचारः संभोगः कामस्त्रीपुंसयोः सुखम् । सुखमानन्दसंभेदः परस्परविमर्दतः ॥ उपचारस्तदानंदकारक कर्म कथ्यते ॥ " इति । अत्र केशग्रहणमुष्टिपीडनविशेषादीनां नायिकासुखकरत्वादानदसंभोगः । कथमपीति । कथंचिद्यत्नेनेति यावत् । तदुक्तमुत्पलमालायां “ ज्ञातहेतु विवक्षाचामप्यादि कधमव्ययम् । कथमादि तथाप्यन्तं यत्नगैरववाढयोः ” इति । प्रथममंगुलिसंवरणम् । तस्मिन्नपकृष्टे सति प्रतिषेधाक्षरवैक्लव्यं तस्मिन्विरमिते सति अंसन्निवर्तनं एवं प्रकारेण कृच्छ्रेणेत्यर्थः । कथमपीत्यनेन नववधूः शनैरेवोपभोक्तुमुचितेति व्यज्यते । न चुंबितं तु । अत्र पुंचनशब्देन तदविनाभूतसंभौगः सूच्यते । न चुंबितं त्विति तुशब्दपुनश्शब्दार्थवाचकः । तु पुनर्नचुंबितमित्यनेन एकवारमेव चुंबितमिति व्यज्यते । चिरप्रार्थाितकृछ्रलब्धनायिकायाः बहुवारमंभोगस्य समुचितत्वात् गौतम्यागमनेन एकवारं संभोगो जात इत्यर्थः । तेन च मध्याह्ने संगतयोः स्त्रीपुंसोरसायमेकवारसंभोगकथनेन स्वस्य मन्मथकलाप्रावीण्येन दीर्घसुरतं

बहुविधक्रीडाश्च सूच्यन्ते । ध्वनिकारेणापि निपातानां रसाभिव्यंजकत्वो दाहरणे अयं श्लोकस्तु न चुंबितं त्वित्येवोदाहृतः । केचिन्न चुंबितं तदिति पठंति । तदयुकम् । उत्तरत्र " दुष्यन्तेनाहितं तेजो दधानाम् ” इति "पीतमया 
सदयमेव रतोत्सवेषु " इत्यनेन च संभोगगर्भधारणानामाकाशवाणीदुष्यन्तमुखोदि-

तत्वात् । तु पुनर्न चुंबितमित्यनेन पुनरपि तत्प्राप्तिं प्रतिचित्तासंगो विन्दुक्त इति बोघ्यम्। अत्र कुट्टमितं नाम स्त्रीणां स्वाभाविकालंकार उक्तः । तदुक्तम् ‘‘अलंकारस्तु नाट्यज्ञैः प्रोक्ता भावसमाश्रयाः । यौवनेऽभ्यधिकं स्त्रीणां विकारा गात्रवक्त्रजाः” तत्र उपचारैः सदानंदाधरकेशग्रहादिभिः । सुखोपचारवत्कोपो बाह्यः कुट्टमितं जगुः ॥ " इति । अत्र सुखोपभोगपरमानन्दकेशग्रहादयः स्फुटाः । अंगुलिसंवृताधरोष्ठत्वेन प्रतिषेधाक्षरैश्च बाह्यः कोपोऽनुमीयते । अत्र अनेके रसाश्च प्रतीयन्ते । यदाह भरतः " न ह्येकरसज काव्यं किंचिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ॥ " इति ॥ लोकोत्तरवर्णनानिपुणकविकर्म काव्यम् । तदेव प्रयोगार्हं नाट्यं भवति। भावादिव्यतिरेकेण एकरस एव यस्मिन्काव्ये दृश्यते तादृशं काव्यं प्रयोगार्हं न भवतीत्यर्थः । यथा प्रकृते नायकारब्धः श्रृंगारः स्फुट एव । तदनुभावाः अधरस्यांगुलिसंवरणेन धैर्यम् । तेन च मिथ्यामानेन गर्वो मदश्च। मुहुरित्यनेनानुरागगोपनादवहित्थम् । प्रतिषेधाक्षरविक्लवमित्यने न दैन्यम् । अंसविवर्तीत्यनेन वचनोच्चारणे ग्लानिः । परस्परदृष्टिसंवधे लज्जा । चुंबितमित्यनेन हर्षः । पुनर्न चुंबितमित्यनेन विनघ्नकारिणीं गौतमीं प्रति क्रोधः । तेन रौद्ररसः प्रतीयते । किंच पुनर्न चुंबितमित्यनेन रात्र्यागमनात्खलु गौतम्यागतेति रात्रिं प्रत्यौग्र्यम् । अहो इति विस्मयः । प्रार्थितार्थसिद्धयो विघ्नवत्य इति निर्वेदः शोकश्च । पुनर्नचुंबितमित्यनेन

पुनस्तत्प्राप्तिं प्रति चिंता वितर्कश्च । प्रतिषेधाक्षरविक्लवमित्यनेन लज्जाभावः शांतिः चपलता च । अंसविवर्तीत्यनेन चुंबनपरिहारेण दन्तक्षताद्गुरुभ्यः शंका भयं

च । अंगुलिसंवृताधरोष्ठमित्यनेन मुग्धत्वं तेन नायकारब्धश्रृंगारः । तदुक्तं श्रृंगारे कदाचि