पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २२२ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


ईनष्कांता शकुंतला सहेतराभिः )[ हृदय, प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सनुशयविघटितस्य कथं ते सांप्रतं संतापः। लतावल्य संतापहारक, आमन्त्रये त्वां भूयोऽपि सैरिभोगाय ]

 राजा--( पूर्वस्थानमुपेत्य । सनिःश्वासम् ) अहो विघ्नवत्यः । प्रार्थितार्थसिद्धयः । मया हि


भिन्नक्रमः । नैव मुञ्चसीति मनोरथे विषयस्य निगीर्णत्वादतिशयोक्तिः । सानुशयविघट्टितस्य सपश्चात्तापं च तद्विघट्टितं च तस्य । "अथानुशयो दीर्घद्वेषानुतापयोः" इत्यमरः । कथं ते सांप्रतं संतापः । यत्संगमे कातरता तत्संगमाभावे तदभाव एवोचितो न तु ताप इति कथं शब्दार्थः । लतावल्य लतागृह संतापहारकेति । अथ च लतागृह संतापहारकेत्येकयोक्त्या दुष्यन्तलतायहयोः संबोधनम् । वलयशब्देनाच्छादकत्वसाधम्येण गृहं लक्षयता गुप्ततरत्वमनोहरत्वादि ध्वनितम् । आमन्त्रये त्वांभूयोऽपि परिभोगाय मुखाय संभोगाय च । अनेन मनोरथो नाम भूषणमुपक्षिप्तम् । तल्लक्षणं तु-‘ मनोरथस्तु व्याजेन विवक्षितनिवेदनम् ’ इति ।


समागत इत्यर्थः । मनोरथविषये अनुरूपवरे राजनीत्यर्थः । मनोरथ इत्यनेनानुरू- पवरप्राप्तौ सत्यां बहुरहस्यकथनचुम्बनालिंगनसंभोगादिकं कर्तव्यमिति खमनसि स्थितमुच्यते । कातरभावं न मुंचसीत्यनेन दुष्यंतेन बहुप्रार्थनायां कृतायामपि गुरुजनादिभीत्या संभोगादिविषये अनुमतिर्न कृतेत्यर्थः । सांप्रतमिदानीम् अस्मिन्नेव राजनि पुनरप्यागते सतीत्यर्थः । सानुशयं विघटितस्येति गौतम्यागमनेन पश्चात्तापपूर्वकं विघटितस्य यथा मनोरथपूर्तिर्भवति तथा संभोगादिकं न जातमित्यर्थः । मनोरथस्तु बहुवारं संभोगादिकं कर्तव्यमिति मनसि स्थितमिदानीं गौतम्यागमनेन एकरमेव जातमिति क्षात्रः । सानुशयमित्यनेन पूर्वं प्रथमदर्शने एकवारं संभोगदिकं जातं चेदिदानीमप्येकवारं संभोगेन मनोरथपरिपूर्तिः किंचिद्भवेत् तथा न जातमित्यर्थः । अनेन पुनरपि नायकप्राप्ति प्रति चित्तासंगो विंदुरित्यनुसंधेयम् । लतावलयेत्यादि । अत्र मनोरथो नामालंकारः तदुक्तं ‘‘ मनोरथस्तु व्याजेन विवक्षितनिवेदनम् ” इति । अत्र शकुंतला लतावलयव्याजेन राजानमामंत्रयत इति मनोरथः । अहो इत्यादि । अहो इत्याश्चर्ये् चिरप्रार्थितनायिकासंगमजनितानंदानुभवस्य मध्ये विघटनात् प्रतिकूलविधिप्राबल्यंगुल्याश्चर्यम् । प्रार्थितार्थसिद्धय इति बहुवचनेन स्वस्य नायिकाविषयकविविधमनोरथ-


{{{1}}}