पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २११ )
टीकाद्वयसहितम्।


 राजा---सुन्दरि !

   
इदमनन्यपरायणमन्यथा हृदयसंनिहिते हदयं मम ।
यादि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः॥२०॥


रोधेन किम् । अनेन मनोऽतिशयितं सौभाग्यं ध्वनितम् । इदमिति । इदं जन्मप्रभृति येन सह स्थितं तमपि परित्यज्य दर्शनात्प्रभृति त्वय्य- नुरक्तमनन्यमिष्टम् । केवलं त्वन्निष्ठमित्यर्थः । अत्र त्वन्निष्ठमिति वक्तव्ये यन्निपेदमुखेनोक्तिः सान्यत्र निषेधं बोधयन्ती शब्दशक्त्यात्र व्यञ्जनया विधित्वेन पर्यवस्यति । तेन ममपि परित्यज्य त्वयि स्थितमिति ध्वन्यते । मम त्वद्ध्यानैकचित्तस्य हृदयं है हृदयसंनिहिते मया सर्वदा ध्याते, इति साभिप्रायम् । यो यत्संनिहितः स तस्य तत्त्वं जानाति, त्वं च तस्य संनि- हिता, सा चेत्त्वमन्यथान्यनिष्टं यदि समर्थयसे कल्पयसि तदा मदिराद्द- टिस्तस्या ईक्षणमिवेक्षणमवलोकनं यस्यास्तत्संवृद्धिः ‘सप्तम्युपमानपूर्वो- तरपदस्य ’ इति समासः । मदिरादृष्टिलक्षणमादिभरते-' आघूर्णमान- मध्या या क्षामा चञ्चिततारका । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥' इति । मदनस्य कामस्य बाणैर्हतो विद्धोऽपि पुनरत्यन्तं हतोऽस्मि विरुद्भमनःप्रवृत्तिर्जातोऽस्मीत्यर्थः । मन्मानसं त्वन्निष्ठं तदपि चेत्त्वम- न्यथा शङ्कसे तर्हि तस्य विषयान्तराभावात्प्रवृत्तिनिरोधो जात एवेति भवः ॥ ' मनोहतः प्रतिहतः प्रतिवद्धों हतश्व सः ’ इत्यमरः । उपमा । हृदयहृदयेते हतो हत इति लाटानुप्रासाः । द्रुतविलम्बितं वृत्तम् । अनेन सामेति संध्यन्तराङ्गमुपक्षिप्तम् । तल्लक्षणं तु-' तत्र साम


सबुयेक्षत इत्यभिप्रायः । तेन नायकविषयस्यापराधवं प्रकाश्यते । अतस्तदेवाह- इदमिदत्यादि । हृदयसंनिहिते हृदये सम्यङ् निहिने अनेन गाढानुरागविषयतोक्ता । अत एवानन्यपरायणम् अनन्याधीनं त्वदेकनियतमित्यर्थः । एवंविधं हृदयं चद्यन्यथा समर्थयसे अन्यकान्तानुरागेण दूयमानं संभावयसि त्वं हृदयसन्निहितापि तस्य हृदयस्य तदेकतानतां यदि न जनसि । मदिरेक्षणे मदिरावदीक्षणं विलोकनं यस्याः सा तथोक्ता मदिरा यथा मोहजननी तथा त्वांगावलोकनमपि मोहजनकमिति यावत् । मदनवाणेत्यादि । त्वय्यनुरागबद्धे सति त्वदप्राप्त्यामन्मथवाणैः प्रथमं वाध्यमानोऽपि संगमाशया जीवितमवलंब्य तिष्ठामि इदानीं त्वद्दर्शने जातेऽपि यदि त्वमन्यथा


१ सुन्दरि इति क० पु० नाति ।