पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(२१०)
[तृतीयः
अभिज्ञानशाकुन्तलम् ।

 राजा--नास्मात्परम् ।

 प्रियंवदा--तेण हि इअं णो पिअसही तु[१]मं उद्दिसिअ इमं अवत्थन्तरं भअवता मअ[२]णेण आरोविदा । ता अरुहसि अब्भुववत्तीए जीविदं से अवलम्विदुं । [तेन हीयमा[३]वयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितं तस्या अवलम्बितुम्]

 राजा--भद्रे, साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।

 शकुन्तला–(प्रियंवदामवलोक्य) हला, किं[४] अन्तेउरविरहपज्जुस्सुअस्स राएसिणो उवरोहेण । [हला, किमन्तःपुरविरह पर्युत्सुकस्य राजर्षेरुपरोधेन]


इति चामरः । तेन हैि [इयं] नोऽस्माकं प्रियसखी त्वामुद्दिश्येममवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्यानुग्रहेण जीवितं तस्या अत्रलम्बितुम् । 'अथाभ्युपपात्तिरनुग्रहः' इतेि शश्वतः । साधारण आवयोः समानः प्रणयो याच्चा यथा भवतीभिरेतदर्थमहमभ्यर्थ्य एवं मयाप्येतदनुग्रहार्थे भवत्यौ प्रार्थनीये इत्यर्थः । 'प्रणयः प्रेम्णि विस्त्रम्भे याच्ञाप्रत्यययोरापेि' इति विश्वः । अन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुप-


पुरस्त्रीविरहनिमित्तकपुनापि संभव्यत इति भावः । त्वामेवोद्दिश्य मदनेनारोपितेखनेन शकुन्तलाशरीरसन्तापादेस्यमेव निमित्तम् । न तु पुरुषविशेषनिमित्तान्तरकल्पनावकाशं इति भावः । अभ्युपपत्या अनुग्रहेण जीवितमवलंबितुमर्हसीत्वनेन रूपलावण्याभिज्ञात्यगुणादिमत्तया शकुन्तला त्वया परिग्राह्येति वक्तुं न शक्यते । किन्तु निर्हेतुकशोच्यजनप्रार्थनया परिगृहीतुं योग्येति भावः । भद्र इत्यादि । प्रणयः प्रार्थना । साधारणं ममापि जीवितं भवत्सख्यावलंबनीयमित्यर्थः । सर्वथा सर्पप्रकारेण अनुगृहीतोऽस्मि । अभ्युपपत्तिरनुग्रहः अनेन पुष्पं नाम प्रतिमुखसन्ध्यंगमुतम्। तदुक्तं "प्रत्यक्षेनानुरागस्य पुष्पं प्रकटनं विदुः" इति । अत्र शकुन्तलानुरागः सखीमुखादुक्तः राज्ञोऽनुरागस्तु खवचनेन साधारणोऽयं प्रणय इत्यादिना प्रकाशितः । हलेत्यादि । अत्रान्तःपुरविरहपर्युत्सुकस्येत्यनेन दुष्यन्तशरीरकाइर्यादीनामन्यनायिका निमित्तत्वकथनेन स्वस्यां तस्यानुरागाभावः सूच्यते । अन्यथा यद्यनुरागः स्यादेताद्दशावस्थापन्नां मां कथम-


  1. एच्च (एव) इत्य० क्क० पु० ।
  2. मम्महेण (मन्मथेन) इति क्क० पु० पा० ।
  3. नः इति क्क० पु० पा० ।
  4. अलं (अलम् ) इति क्क० पु० पा० ।