पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
(२०९)
टीकाद्वयसहितम्।

 अनसूया--इदो सिलातलेक्कदेसं [१]अलंकरेदु वअस्सो । [इतः शिलातलैकदेशमलंकरोतु वयस्यः]

(राजोप[२]विशते । शकुन्तला सलज्जा[३] तिष्ठ ते)

 प्रियंवदा--दु[४]वेणं णु[५] वो[६] अण्णोण्णाणुराओ पच्च[७]क्खो । सहीसिणेहो मं पुणरुत्तवादिणिं करेदि । [द्वयोर्ननु युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति]

 राजा--भद्रे, नैतत्पारिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।

 प्रियंवदा--आवण्णस्स विसअणिवासिणो जणस्स अत्तिहरेण रण्णा होदव्वं त्ति [८]एसो वो धम्मो । [आपन्नस्य विषयानिवासिनो जनस्यार्तिहरेण राज्ञा भावितव्यमित्येष युष्माकं धर्मः]


शैत्ये श्वैत्याधिक्यप्रयोजनमुन्नेयम् । इतः शिलातलैकदेशमलंकरोतु वयस्यः। द्वयोर्ननु युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति । आपन्नस्यापत्प्राप्तस्य विषयनिवासिनो देशनिवासिनो जनस्यार्तिहरेण पीडाहरेण राज्ञा भवितव्यमित्येष युष्माकं धर्मः । 'आपन्न आपरप्राप्तः स्यात्' 'देशविषयौ तूपवर्तनम्' 'आर्तिः पीडाधनुःकोट्योः'


यैस्तानि तथोक्तानि । अनेन श्लोकेन संभोगं प्रति विलंबं कर्तुं न शक्यं किमर्थं प्रत्युस्थानं क्रियत इति भावः । इदो इत्यादि । इतः शिलातलैकदेशमुपविदचानुगृह्णात्वार्यः। उपविश्यानुगृह्णात्वित्यनेन मदनकातरादिकं त्वया किमपि हठान्न कर्तव्यं किन्नु वक्तव्यांशोऽस्तीति भावः । अन्योन्यानुरागः कालाक्षमलक्षणोऽभिलाषविशेषः प्रत्यक्षः शरीरकारर्यवैवर्ण्यादीभिः साक्षादृष्टः। तथापि सखीस्नेहः शकुन्तलाविषयकहेतुपक्षपातः पुनरुक्तवादिनीं करोति । अनेन तव शरीरक्रारर्यादीन् प्रति निमित्तान्तरमप्यस्तीति भावः । तदेवाहआपन्नस्येत्यादिना । आर्तिहारेण भवितव्यमित्यनेन राज्ञो बहुवल्लभत्वस्य युक्तत्वाद्यः या राजनं कामयते सा सा राज्ञा परिगृह्यत इत्यर्थः । वः युष्माकं तत्रैकस्यैव न भवतीति यावत् । एषः बहुवल्लभत्वम् । धर्मः कुलाचारः त्वच्छरीरकारर्यादीनामन्तः-


  1. अणुगेण्हादु पिअ (अनुगृह्णातु प्रिय०) इतेि क्क० पु० पा० ।
  2. उपविष्ठः इति क्क० पु० पा० ।
  3. सलज्जं इति क्क० पु० पा० ।
  4. वअस्स (वयस्य) इत्यधिकं क्क० पु० ।
  5. णु (ननु) इति क्क० पु० नास्ति ।
  6. वो (वां) इति क्क० पु० प० ।
  7. तहवि (तथापि) इत्यधिकं क्क० पु० ।
  8. णं एस वो धम्मो (नन्वेप वो धर्मः) इति क० पु० पा० ।