पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अङ्कः ३]
(२०३)
टीकाद्वयसहितम्।

 प्रियंवदा--इमस्सिं सुओदरसुउमारे णलिणीपत्ते णहेहिं णिक्खित्तवण्णं करेहि । [एतस्मिञ्छुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्त[१]वर्णं कुरु]

 शकुन्तला--([२]यथोक्तं रूपयित्वा) हला, सुणुह दाणिं संपदत्थं ण वेत्ति । [हला, शृणुतमिदानीं संगता[३]र्थं न वेति]

 उभे--अवहिद ह्म । [अवहिते स्वः]

 शकुन्तला--(वाचयति ।)

 तुज्झ ण आणे हिअअं मम उण का[४]मो दिवावि रत्तिम्मि ।
 णिग्घिण तवइ बलीअं तुइ वुत्तमणोरहाइं अङ्गाइं ॥ १७ ॥

 [तव न जाने हृदयं मन पुनः कामो दिवापि रात्रावपि ।
 निर्घृण[५] तपति ब[६]लीयस्त्वयि वृ[७]त्तमनोरथान्यङ्गानि ॥ ]


न्तितं मया गीतवस्तु न खलु संनिहतानि पुनर्लेखनसाधनानि । एतस्मिञ्छुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु | शृणुतमिदानीं संगतार्थं न वेति । अवहिते स्वः । [तुज्झेति ।] तव न जाने हृदयं मम पुनः कामो दिवापि रात्रावपि । निर्वृण निष्कृप तापयत्याधिकम् । त्वयि


काष्ठामारूढे दर्शनादिभिः । यत्र द्रवत्वन्तरंगं स स्नेह इति कथ्यते ॥ "स्नेहस्त्रिविधा प्रौढमध्यमंदभेदतः । "प्रवासादिभिरज्ञातचित्तवृत्तौ प्रयोजने । इतरक्लेशकारी यः स प्रौढः स्नेह उच्यते ॥ इतरानुभवापेक्षां सहते यः स मध्यमः । द्वयोरेकस्य मानादौ तदन्यस्य करोति यः ॥ नैवापेक्षां स स्नेहो मन्द उच्यते । "रागस्य लक्षणं द्वितीयेऽङ्के उक्तम् । अथानुरागः "राग एव स्वसंवेद्यदशाप्राप्त्या प्रकाशितः । यावदाश्रयवृत्तिश्चेदनुराग इतीरितः ॥" हलेत्यादि । निक्षिप्तवर्णां कुरु गीतिकामिति शेषः । अनेन लेखो नाम सन्ध्यंगमुक्तम् । यदाह "यूनोः परस्परं लेखो मन्मथार्थविलेखनम् ।" इति । अत्र शकुन्तलायाः दुष्यन्तं प्रति तुज्झेति । हे निर्घृण निष्करुणेति दैन्योक्त्या संबोधनम् । स्वविषयकगाढानुरागजनितविप्रलम्भज्वरसंपादितानि मम शरीरकार्श्यादीनि दृष्ट्वापि तव दया नोत्पद्यत इति यावत् । तस्मान्निर्घृणेति संबोधनम् । स्वनिमित्तव्यसनाभिभूतं जनं


  1. वर्णम् इति क्क० पु० पा० ।
  2. यथोद्दिष्टं इति क्क० पु० पा० ।
  3. संगतार्थां इति क्क० पु० पा० ।
  4. मअणो दिवावि रत्तिंवि (मदनो दिवापि रात्रिमपि) इति क्क० पु० पा० ।
  5. निर्घृणः इति क्क० पु० पा० ।
  6. बलवत् इति क्क० पु० पा० ।
  7. युक्त इति क्कo पु० पा० ।