पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(२०४)
[ तृतिय्ः
अभिज्ञानशाकुन्तलम् ।

वृत्तमनोरथानीति हेतुत्वेन योज्यम् । अङ्गानीति बहुवचनेन मार्दवातिशयो ध्वन्यते । तव हृदयमीति विशेषोपादानात्स्वस्योत्कण्ठातिशयस्तस्य तदभावो ध्वन्यते । सथ च रक्तं तापयति च तदा न जाने किमयं यद्यप्येतादृशतापेऽपि न द्रवतेि । एतदनुसंधायैव निप्कृपेति संबुद्धिः । सा चेत्स्याद्द्रुतमेव स्यात्तत्स्वभावत्वात्तस्याः । इति दुःखात्परुषोक्तिः । अर्थापत्त्यलंकारः । अथ च 'हृदयं मानसोरसोः' इति विश्वः । तेन तव हृदयं गोपुरकपाटायमानं रिपुदनुजनिवहशरशतैरप्यभेद्यम् । एवंभूतमहं न जाने । अपि तु जान आप्तजनवचनात् । अतएव मेऽङ्गानि सर्वाणि दिवापि रात्रावपि तापयतेि कामः । तव तु वक्षोमात्रमपि न तापयितुं शक्तः । यदि तापयेत्तदा निर्घृण नेिर्जुगुप्स निदत्वसमयशीतलतरमत्कुचपरिरम्भगायागच्छेः । 'घृणा जुगुप्साकृषयोः' इति विश्वः । तादृशं तव वक्ष आलिङ्गितुमिच्छामीत्यभिलापोक्तिः । अनुमानालंकारः । अयं मल्लक्षणो जनस्तव हृद्द्यरूपः । रूपकम् । कामः पुनर्ममाङ्गानि यत्तापयति तत्र ज्ञान इति प्रश्नकाकुः । वृथैव तापयतीत्यर्थः । ते स्प्रष्टुभप्यक्येति भावः । समासोक्तिः । त्वं त्वेतादृशो निष्कृपो यद्धृदयरूपामपि मां न परित्रायसे । अथ चायं जनस्तव हृत्कानः पुनर्भमाङ्गानेि यत्तापयाति तदहं न जाने, अपि तु जाने । त्वकान्तेिजित इत्यर्थः । तेन तव हृदयं कठोरत्वात्ताप-


पश्यतः पुरुषस्य तस्मिन् दयोत्पतेः संभवादिति भावः । अनेन गर्वशरीरकार्श्यादिनिवेदनं कृतम् । तव हृदयं न जान इत्यनेन मम हृदयं स्थिरनुरागं तव चितमपि स्थिरानुरागं या । नवेति परबुद्धेरग्रत्वक्षत्वाशिरसहवासाभावन्न जान इति द्योत्यते । यदि तव हृदयमपि गाढानुरागकं तर्ह्येनादृशायस्थापन्नां भां कथमुपेक्षस इति भावः । तेन स्वस्यानुरागस्य कालासत्वं ज्ञायते । तेन स्वस्याः कन्याभावमुलभमग्रागल्भ्यं सूच्यते । किंचानेन लज्जात्यागो नाम सदनदशाबरधान्तरं च चन्यते । तयेत्यनेन कठिनचिंतस्य तवोत्वर्थः । स्यस्य एतादृशावस्थान्तरोपेक्षकतया नामधेयग्रहणायोग्यस्य तवेति व्यज्यते । अत एच दुष्यन्तेतिपदं न प्रयुक्तम् । मम पुनः मभ तु पुनः शब्दो विशेषवाची वद्यपि तव हृदयमपि स्थिरागुरागं तथापि मदनस्तु मां यथा बाधते तथा । त्वां न बाधत इत्यर्थः। मदनस्त्वयि युक्तमनोरथान्यंगानि नपनीत्वनेन त्वय्यनुरक्तां मां कामो रूपलावण्यादिना त्वसदृशस्तव द्विषत् त्वत्संबंधितया मां बाधते तादृशी दुर्बलां मां त्वमुपेक्षस इत्यर्थः । अत एव त्वयि युक्तमनोरथानीयुक्तम् । समेत्यनेनानुभूयमानमरणसघ्रीचीनात्मदशानिवेदनं क्रियते । तपतीति वर्तमानव्यपदेशेनाद्यापि जीवितसंशयगतायामपि मयि सत्यामपि तस्य कोपस्योपशमो नास्तीति व्यज्यते । मदन इत्यनेन यूर्वमेव रूपलावण्यादिविषये मदनस्य तव च गाढशात्रवमिदानीं विप्रलंभरूपरन्ध्रे प्राप्ते