प्रियंवदा–( जनान्तिकम् ) अणसूए तस्त राएसिणो षढमदंसणादो आरहिअ पज्जुस्सुआ[१] विअ सउन्दळा । किं तु क्खु से ताण्णिमित्तो अअं आतङ्कोवे भवे । [ अनसूये, तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला । किं नु खलु तस्यास्तान्निमितोऽयमातङ्को भवेत् ]
अनसूया--सहि, ममवि र्दिसी आसङ्का हिअअस्स । होदु । पुच्छिस्सं दाब णं । ( प्रकाशम् ) सहि । पुच्छिदव्वासि किंपि । बलवं क्खु दे संदावो । [ सखि, ममापीदृश्याशङ्का हृदयस्य । भवतु । प्रक्ष्यामि तावदेनाम् । सखि । प्रष्टव्यासि किमपि, बलवान्खलु ते संतपः ।
शकुन्तळा–( पूर्वाधन[२] शयनादुत्थाय ) हला, किं वनुकामानि । [ हला, किं वक्तुकामास ]
अस्मिन्पाठे षष्ठीषोऽपि परिह्नतः अनसूये , तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला । तस्यां मिथ्यारोपभियेत्रशब्दोपादानम् किं नु खलु तस्यास्तन्निमित्तोऽथमातङ्को भवेत् । सखि, ममापीदृश्याशङ्का ह्नदयस्य । ममापि ह्नदयस्येति संबन्धः । हृद्ग्रग्रहणेन तास्मन्फुरणमात्रमुक्तं न तु तत्त्वतः । अत एवशङ्कापदम् । भवतु । प्रक्ष्यामि तावदेनाम् । सखि, प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः । पूवर्धेनेति । शरीरस्येति शेषः। “ पूर्वेण ? इति पाठे शरीरार्धेनेत्यार्थम् । किं वक्तुकामासि
दिना मदनतापो निश्चयत इत्यनुमानम् । अणसूए इत्यादि । तस्य राजर्षेरित्यनेन लोके रूपलावण्याद्यतिशयवत्पुरुषविशेषेषु सत्स्वपि स एव स्पृहणयिता मनोविश्रतिहेतुरिति दुष्यन्ते उत्कर्षसम्भावना व्यज्यते । तेन च महाकुलीनत्वेन रूपादिभत्तया च तस्मिन्नभिलाषवत्यै शकुन्तलाया हेतुरुक्तः । प्रथमदर्शनादारभ्येत्यनेन पुररपि यज्ञकर्मादौ वहुवारदर्शनं सूच्यते । असकृद्दर्शनेनैव हि तत्कृतसाकूतावलोकनचेश्चाविशेषाणां स्खचि ययनुरागजन्यत्वं सम्यक् ज्ञायते । तथा मालतीमाधवेऽपि " भूयो भूयः सविधनगी यया इत्यादौ । तेन च प्रथमदर्शनानंतरं शकुन्तलायाः दुष्यन्तदर्शनार्थं कुतनाना व्याजादिकं सूच्यते । पर्युत्सुकेत्यनेन गाढानुरागात्तद्दर्शनप्रभृथुचितकार्यवैमुख्यं इष्यते । आपनेल्यमेन वस्तुसौंदर्यंबल्लाळूढमूलानुरागतया विरहपरंपराजनितस्थुतिर्गुणगणोद्वेगाद्यवस्थाः द्योत्यन्ते । आतंकः दुःखपरंपरा । भवेदिति विधौ लिट् । अनभ्यन्तरा।ह अविषयः ।