क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरम् ।
शोच्या व प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥११॥
क्षामेति । क्षामक्षामौ कुतरौ पूर्वं कुशावधुना कृशतरौ कपोलौ यत्र तदाननं मुखम् । उरः काठिन्येन मुक्तौ स्तनौ यत्र तत् । इदुभपि कार्श्यादेव । पूर्वं क्लान्तः कृशः, अधुना ल्कान्ततरो मध्यः । अंसौ पूर्वमेव विनतौ, अधुना प्रकाममत्यर्थं विनतौ ! छबिः पाण्डुरेति विरहकार्यादेव । शोच्या शोचनीया च प्रियदर्शना च हृद्यदर्शना चोते विरोधः । शोच्यानुकम्पार्हति तदाभासः । मदनेन क्लिष्टेति शोच्यत्वे हेतुत्वोपादानान्काव्यलिङ्गम् । केव । भाधयो वासन्ती लतेव । कीदृशं । शोष्यतेऽनेनेति शेषणः ।” करणाधिकरणयोश्च ” इति ल्युट् । तेन पत्राणां शोषणेन मरुता पश्चिमवायुना स्पृष्टा । स तु तस्या आप शोपक इति हृिष्टत्वम् । माधवीशब्देन प्रियदर्शनत्वमुक्तं लतामात्रस्यैव कार्श्यसंभवात् । उपाभानुप्रासौ । शार्दूलविक्रीडितं वृत्तम् । “ वक्त्रं क्षामकपोलयुग्भृशमुरः ' इति ‘क्लान्ततरौऽसयुग्ममधिकं नम्न छविः ’ इति पाठ उद्देश्यप्रति निर्देशप्रक्रमभङ्गः प्रकामविशब्दयोरर्थोपोनरुक्त्यं च परिहृतं भवाति ’संस्पृष्टा दृशोषणेन मरुता सा माधवीव प्रिया ’ इति पाठ
क्षामेत्यादि । कपोलयोः स्वाभाविकी क्षमता इदानीं विरहपरंपराजनितदुःखेनातिशयेन जातेत्यर्थः । काठिन्यमुकस्तनमिति । प्राथविशेषेण सर्वोचथयदर्थेऽधि कुचयोः परिणाहो न विहतः केवलमीपस्काठिन्थपरित्याग एयेति ध्वन्यते । अन्यथा प्रियदर्शनस्वानुपपत्तेः । मध्यः कान्ततर इति । कृशोदरीत्येन स्तनजघनभाराभ्यां च मध्यः पूर्वमेव क्लान्तः संप्रत्यतिशयेन क्लान्त इत्यर्थः । अनेन कार्ये नमावस्थान्तरमुक्त्तम् । प्रकामविनतो अंसै स्तनभाराभ्यां पूर्वमेव नतौ इदानीं प्रकर्षेण विंनतावित्यर्थः । छविः पांडुरेति पूर्यमविद्यमानैव पांढुतता । अनेन पांडत्वं नामावस्थान्तमुक्तम् तो। शच्या एतादृक्परिपुथययवानामैवं क्षमतादिजननेन शोचनीया । प्रियदर्शनाः । अवषत्रमतादिमत्स्येऽपि लावण्यस्यातिशयितत्येन स्वविषयानुरागजनितक्षामतादिमत्त्वेन च प्रियदर्शनः । दर्शनं दृष्टिः तस्याः परमसुखदर्शनत्वेन प्रियस्चम् । रम्याणां विकृतिरपि शोभावहेत्यर्थः । तदुक्त्त भोजेन ‘‘ किंचिदाश्रयसौंदर्याद्धत्ते शोभामसावपि । कान्ताविलोचनं न्यस्तं मलमसमिवांजनम् ॥ " इति । पत्राणामत्रत्वादि दृष्टान्तः । अत्र शेषणेन पांडुवा कथिता ।