सामग्री पर जाएँ

पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।

येत्यस्य नस्थानस्थपदत्वम् । यां च सर्वेषां बीजानां प्रकृतिर्योनिरित्याहुः।अनेन पृथिवी । ‘प्रकृतिः सहजे योनावमात्ये परमात्मनि' इति विश्वः । अत्रापि सर्वबीजोत्पत्तिहेतुत्वेनेतिन कर्मण उक्तवान्प्रकृतिरितेि प्रथमा । तथा च वामनः-`निपातेनाप्यभिहते कर्मणि न कर्मविभक्तिः । परिगणनस्य प्रायिकत्वात्’ इति । यया च प्राणिनः प्राणवन्त इत्यत्र प्राणिनो जन्मिन इति । ‘प्राणी तु चेतन जन्मी' इत्यमरः ? रूढथा सामान्यमुद्दिश्य प्रणवन्त इति विशिष्टस्य विधानम् । अन्यथा पर्यायोच्चारण एकस्य पौनरुक्त्यं स्यात् । प्राशम्ये चात्र मतुप् । “ भूमनिन्दाप्रशंसासु ’ इत्याधुक्तेः । हृदि प्राणवायुर्जीवात्मन आश्रयस्तद्वन्तः । ‘हंस: प्राणाश्रयो नित्यम् ’ इत्युक्तः । तेन जीववन्तश्च बलवन्तश्चेत्यर्थः । एतेन सर्वातिशयो व्यज्यते । ‘प्राणो हृन्मारुते वाले काव्ये जीवऽनिले बले । पूरित वाच्यवस्प्राणं प्राणाश्वसुषु कीर्तिताः ? इति विश्वः । अतश्च न


योवैशिपृयं प्रत्यपादयन् । इह काव्ये चेदशन्नगणव्यतिरेकेण वा चकलाक्षणिकत्र्यंजकव्यपदेशभाजः शब्दान्निविधा भवति । याचकलक्षणैकः शब्दः सर्वेपां साधरणो व्यंजकः शब्दस्वीकारः पुनरसाधारणः । अभिधालक्षणाव्यापारगम्ययोरर्थयोरभिधेयलययोरुपरि रसादिरूपः कश्चिदर्थः काव्ये समुपलभ्यने । स तु स्थक्षयार्थं एव । केचित्सृज्यत इति ग्रांप्रीति भृग्ष्टरिति कर्मण्युत्पत्ति वदन्ति । अत्र व्युत्पत्तौ केचिदेनं पारंचोदयंति "स्त्रिया क्तिन्' इति क्तिनों घत्रपवादरय भावार्थकारस्वाद्भावग्न्पग्न्भेव प्रोद्गीयते, सिद्धिः शुद्धिरेिक्ष्यदिवत् " अकर्तरि च करके संज्ञायाम्" इति एतद्वञपवादत्वे क्तिनोऽपि संज्ञायामेव पर्यवसानं स्याद् यथा श्रुतिः स्मृतेरिति । इदं नु श्रुटेिशब्दैन न कस्यापि मृत्यवस्तुनः संज्ञा गम्यत इति कर्मव्युत्पत्त्यनुपपत्तिरिति। अत्रोच्यते अत्रोच्यते "अकर्तरि च कारके ” इत्यत्र संज्ञायामित्युपाधिवचनं प्रायिकाभिप्रायं चशब्दाय संज्ञायामिवासंज्ञायामपि कर्मत्वादिः संपनीप्रद्यत इति यमुर्रव्याख्यातृभिः सेवन्भुमनुवर्तिष्यत इति फणिपतिफणितौ संबध्यत इति संबंधः कर्मणि घजिति न्यायाथि अतस्तदपवादत्वात् क्त्तिनोऽपि कर्मादिव्युत्पत्तिः सूपपादेति सृष्टिशब्देनेह सृष्टमेव दरवभिधीयते तच सृष्टिपदं त्वाद्यपदविशेषणत्रिशिष्टं सद्वचफमेव जलस्येति । विधिहुतमिति । विधिः प्रेरणा तद्वचछिष्टादिविशिष्टं विद्युद्देशवाक्यमवयवावयविसंबन्धजन्य लक्षणय विधिरित्यभिधीयते । एतद्विध्युद्देशकांक्षित लदेशद्रव्यकर्मादिप्रतिपादकं दर्शपूर्णमासादिप्रकरणमपि लक्षतलक्ष्णया विधरिषभाणि । अथवा वाक्यैकवाक्यभ्यायेनावान्तरवावयभूताधिकार विधिवनियेगविधिप्रयोगविधियावयविशिष्टपूर्वचिथिवषयगतलिडादिविधिरित्युच्यते । तेन विधिना करणभूतेन हुतं प्रक्षिप्तं हविः पुरोडाशादिकं