पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ५ )
टीकाद्वयसहितम्।


A > कथितपदाशंका । उद्देश्य विधेयार्थान्तरसंक्रमितवाच्यलाटानुप्राप्तान्परिहृत्यैव तस्याङ्गीकारात् । ‘अपवादविषयं परिहृत्योत्सर्गस्य प्रवृत्तिः' इति न्यायात्पुनरुक्तवदाभासोऽलंकारः । ताभिः प्रत्यक्षाभिरष्टाभिस्तनुभिर्मूर्तिभिः प्रपन्नो युक्त ईशो वोऽवत्वित्याशीः । ‘तनुर्मूर्तौ त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कुशे ’ इति मेदिनीकारः | अत्राशिषि सभ्यानां लाभः । अत एव ‘आशीर्नमस्क्रियारूपः’ इति भरतेन, भासेनापेि 'आशीनमस्क्रियावस्तु ’ इत्यादावेवाशीर्निबद्वा । तेनासौ नटः किंनमस्काररूपां तत्रापि किंविधाशीरूपां नान्दीं पठिष्यतीति सोत्कण्ठानां सभ्यानां तामपनेतुं पूर्वभवत्वित्युक्तिः । अत्र च सकलाभिलषितफलवितरणप्रवणत्वमेवावनं विवक्षितम् । पालनर्थत्वाद्धातोः । तच्च तेन विना न संभवतीति । कानित्यपेक्षायां वो युष्मान्सभ्यानित्यर्थः । तेषामेवात्र संबोधनयोग्यत्वात्संवोधनप्रधानत्वाच्च युष्मदर्थस्य । अतश्च ‘अनुवाद्यमनुक्त्वैव न विधे-


वहति प्रापयति अग्निः स्वयं हविरधिकरणं भूत्वेन्द्रादिदेवतास्वात्मना यजमानादिहुतं प्रापयाति " अग्निमुखा वै देवाः ” इति श्रुतेः । अनेन हविरधिकरणभूताः संत्कृतास्त्रेताग्नय उच्यंते अनेन तेजोमयी तनुरुक्ता ॥ या च होत्रीति॥ होत्रीति यजमानरूपा चशब्द उक्तसमुच्चये । हविरधिकरण्ं हवनकर्त्री चेत्यर्थः । अनेन विचित्रशक्तित्वं द्योत्यते "चान्वाचयसमाहारेतररेतरसमुच्चये" इत्यमरः । यद्यपि होतृशब्द ऋत्विक्षु प्रयुज्यते तथापि हवनस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वेन तस्य यजमानत्वेन च स एव मुख्यो होता । अनेन यजमानरूपा तनुरुक्ता ॥ ये द्वे कालं विधत्त इति॥ ये द्वे मूर्ती सूर्याचन्द्रमसरूपि । यद्यपि नित्यो विभुः कालः तथापि लोके इयन्तं कालं सुखमस्माकमित्यादिव्यवहारेषु तपनेन्दुगतिपरिच्छिन्नस्यैव कालशब्दवाच्यत्वान् सूर्यगतिपरिच्छन्नः कलामुहूर्ताऽहोरात्रादिः । चंद्रगत्युपलक्षिताः प्रतिपदातिशयः । एतादृशपरिच्छेदकर्त्ऱुत्वेन तयोः कालविधातृत्वं न चेत्कालस्य नित्यत्वाद्विधानं न संघटते। अहोरात्रलक्षणौ कालौ विधत्त इति केचन वदन्ति । न चैतच्चनुरक्षं बहुलाक्षे असत्यपि चंद्रे रात्रेः संभवात् पूर्वक्षणवर्तित्वाभावाच्च । पूर्वस्मिन् पक्षे उपाधित्वेन तिथीनां कालकर्तृत्वे पूर्वक्षणवर्तित्वनियमनैरपेक्ष्येण तिथेः संभवादुपाधितया कालकर्तुत्वमेव सहृदयहृदयदर्पणमध्यास्ते । अनेन सूर्यचन्द्रमसरूपे तनू उक्ते ॥ श्रुतित्रिपयगुणेति । श्रूयतेऽनयेति श्रुतिः श्रोत्रेन्द्रियः तस्य विषयः शब्दः " शब्दगुणकमाकाशम् " इति काणादाः। विश्वं चराचरं व्याप्य अन्तर्बहिश्चाभिसंबध्य स्थिता न तु कदाचिद्विमक्ता श्रुतिविषयगुणा या स्थितेत्येतावता आकाशप्रतिपत्तौ व्याप्य विश्वमिति पदद्वयोपादानं निरर्थकमिति नाशङ्कनीयम् । कर्णशष्कुल्यव्यच्छिन्नाकाशव्यावृत्य छिन्नाकाशःन शिष्याश्चय डैभनच्छलाक्षश बतौरयर्थे च पदद्वये