पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १५३ )
टीकाद्वयसहितम्।


विदूषकः-जइ एव्वं पञ्चदेसो दाणिं रूपवदीणं । [ यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ] राजा-इदं च मे मनसि वर्तते ।

अनाघ्रातं पुष्पं किसलयमळूनं कररुहै- रनाविध्दं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनघं' न जाने भोक्तारं कमिह समुपस्थास्यते विधिः ! १० ॥


ङ्गश्रुतिवृत्यनुप्रासौ । वसन्ततिलका वृत्तम् । यद्येवं प्रत्यादेश इदानीं रूपवतीनाम्। प्रत्यादेशो निराकृतिः' इत्यमरः । अनाघ्रातमिति । अनाघ्रातकृतघ्राणम्।

अनेनामोदसत्ता । ध्वन्यते । कररुहैर्नखैरलूनमच्छिन्नम्।

त्याधारापेक्षितवात्तदनभिधानाद्यस्यकस्यचित्स्पर्शे सति म्लानत्वं काठिन्यं च भवेदित्यमूर्त्द्रव्याकाश एवाधार इति युज्यते । मनसा कृता निर्मिता परिकल्पितसत्वयोगा। ननु उत्प्रेक्षायां धातुर्विभुत्वं सृष्टुिंसामर्थ्ये तस्या वपुश्चानुचिंत्य स्थितवतो मे सा रक्षसृष्टिर्युवतीषूत्कर्षसृष्टि:।

‘‘ जातौ जातौ यदुत्कृष्टं तद्रत्नमिति रुच्यते " इत्युक्तवान् ।

अपरा पूर्वकथितलोकविलक्षणा प्रतिभाति । अत्र लोके शकुन्तलास्रुष्टे: पांचभौतिकत्वेऽपि

कविना सौन्दर्याद्यतिशयश्चेतनार्थं चित्रसृष्टिरूपोच्चयसृष्टिलक्षणकथनाद्यद्स्रुष्टे:

कविसृष्टिरन्या चमत्कारावदेति कवीनां शिक्षाप्रकारः प्रदर्शितः । तदुक्तम्-‘* अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचने विश्वं तथेदं परिवर्तते।।" इति । संसारे प्रपंचसर्गविधेः प्रजापतयो बहवो भवन्ति तेषां नियामकतयेश्वरनियंत्रितत्वात्स्वेच्छया किमपि कर्तुं न प्रभुत्वम् । तत्सृष्टैः सुखदुःखमोहात्मकत्वं परमण्याद्युपादानकर्मादिसहकारि कारणपरतन्त्रत्वं प्रलयावधिकत्वं च अपारे कव्यसंसारे कविरेव स्रष्टा भवति नियति नियंत्रणातिक्रान्तत्वात् । स्वतंत्रवृत्तेः कवेयेर्न प्रकारेण बभस्रष्टुमिच्छा भवति। ब्रह्मसृष्टिमिदं विश्वं नियतरूपं तेनैव प्रकारेण परिवृत्तं भवति । सत्वरजस्तमोभिरारब्धत्वात्सुखैकरूपमपि न भवति पारतंत्र्यवार्ताविधेयमपि न भवति । अत्र सकलस्त्रीजनसृष्टिसाधारणपांचमान्तिकलक्षणाया

ब्रह्मसृष्टे: शकुन्तलाया लोकातीतवस्तुसौन्दर्यप्राबल्यप्रकाशनार्थं चित्रसृष्टिरुपोच्चयसृष्टिकथनाद्रह्मसृष्टे:
कविसृष्टं चमत्कारावहं भवति । स मृष्टमेवमिच्छाधनमपि

न भवति नियतखभाचतया चमत्कारावहमपि न भवति तस्माद्द्वसृष्टेः विसृष्टिर्येति रिलेत्युक्तं भवति । जइ इत्यादि । अद्यारभ्य शकुन्तलया रूपवत्यः सर्वा निराकृता इति भावः । इदमित्यादि । इदं वक्ष्यमाणं तद्रुपादिविषये अवशिष्टं वक्तव्यमस्तीति यावत् । अनाघ्रातमित्यादि । अनाघ्रातमित्यनेन पुष्पस्य सद्योविकसितत्वमुच्यते तेन सौरभ् बाहुल्यं सूच्यते किंच अनाघ्रातमित्यनेन पंकजादिपुष्पाणामाघ्राणाद्युपभोगे सति उद्वेज