पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १५२ )
[ द्वितीयः
अभिज्ञानशाकुन्तलम् ।


तिश्रेष्ठेऽपि ’ इत्यमरः । अपरा जगत्स्त्रीसृष्टिविलक्षणेत्यभेदेऽभेदरूपातिशयेक्तिः । धातुर्विभुत्वं सामर्थ्यं तस्या वपुश्चानुचिन्त्येत्यपरार्धे हेतुत्वेन योज्यम् । तृतीयचतुर्थचरणयोर्व्यत्ययपाठेन समाप्तपुनरात्तदोषः परिहर्तव्यः । केचनापरेत्यतिशयौक्तावत्युत्कृष्टस्य हेतोः ’ अण्णं लडहत्तणम् इवेत्यादावर्थस्य गम्यमानत्वाच्चतुर्थचरणस्य छन्दःपूरणमात्रप्रयोजनत्वेनावकरत्वं मन्यमाना दूरान्वयेनेतिपदाध्याहारेण च सा स्त्रीरत्नसृष्टिर्म इति प्रतिभाति । इतीति किम् । विधिना चित्रे निवेश्येत्याद्युत्प्रेक्षाद्वयं संयोज्यम् । तत्रोभयोरत्यन्तासंभावनीयतया ल्यबन्तद्वयं यथाक्रमं प्रत्येकं वा संबध्य तदुत्थापितामपेरेवेति गम्योत्प्रेक्षामाहुः। अन्ये त्वेवं व्याचक्षते । परस्य वितर्कं स्वयमेवानुवदति । चित्रे निवेश्येत्यादि कश्चित् । अन्यस्तु रूपद्वयेनेत्यादि मन्यते । मम तु सा स्त्रीसृष्टिरपरा एतद्दविलक्षणा प्रतिभाति । । प्रसिद्धसृष्टेस्ताभ्यामेव निराकरणादुत्प्रेक्षाद्वयस्यात्मना निराकरणादन्यस्याभावमाशङ्क्य तत्र हेतुत्वेन ल्यबन्तद्वययोजना । तेन ब्रह्मणोऽलौकिकसामर्थ्यात्तद्रूपस्य च लोकातिक्रान्तत्वात्तत्सृष्टावन्य एव प्रकारो भविष्यतीति भावः । काव्यलि-


पारतंत्रेण मनसः शक्याशक्यबहुविषयत्वात्पूर्वपक्षापेक्षया सौंदर्याधिक्यं साकुगार्यं च लभ्यते हस्तस्तु सन्निहितं परिमितमेव गृह्णाति मनस्तु दुर्लभं बहु क्रोडीकरोतीति भावः । कृता नु सृष्टा किं लोकोत्तरवस्तु कथं मया परित्याज्यं सुजन्मसाफल्ययोस्तस्या लाभालाभावेव हेतू इति भावः । एवं विधिनिर्माणयोः कारणमाह धातुरिति । धातुर्ब्रह्मणः विभुत्वं नानाविधसृष्टावकुंठितस्वातंत्र्यं तस्याः शकुन्तलायाः वपुश्च अनुचिंत्य मुहुर्मुहुरालोच्य स्थितवतो ममेत्यर्थः । सा अनुभूता स्त्री युवतिः अपरा पूर्वकथितविलक्षणा रत्नसृष्टिरुत्कर्षसृष्टि: । " रत्नं श्रेष्ठे मणौ ” इति विश्वः । प्रतिभाति सर्वप्रकारेण भासते । यद्वा तस्याः । शकुन्तलाया वपुश्च लोकोत्तरचमत्कारकारि सौंदर्याद्यतिशयवदवयवादिकं च धातुः रार्वप्रपंचसृष्टिकर्तुर्विभुत्वमुर्वशीप्रभृतिसृष्टिसामर्थ्यं चानुचिंत्य स्थितवतो मे सा स्त्री अपरा रत्नसृष्टिर्वर्तमानविधातृव्यतिरिक्तस्य यस्यकस्यचिन्नूतनब्रह्मणः निपुणा सृष्टिः प्रतिभाति । विद्यमानविधातृसृष्टिसामर्थ्यस्य रंभामेनकादियुवतिषु परिसमाप्ततया दृष्टत्वाच्छकुन्तलायास्ततोऽतिशयसौंदर्यादिमत्तयाऽन्यस्य यस्यकस्यचित्ब्रह्मणः सृष्टिरिति भासत इति यावत् । अत एवोक्तम् । अपरा रत्नसृष्टिरति । केचिदेवमपि योजयंति । चित्रे आश्चर्ये आश्चर्यविषय इति यावत् । " नपुंसि चित्रमालेख्ये 'त्रिष्वाश्चर्यप्रसिद्धयोः ’ इति भागुरिः । सर्वेषामाश्चर्योत्पादनार्थं लोकोत्तरमितरविलक्षणमेकम् । स्त्रीरत्नं स्रष्टव्यमित्याश्चर्ये प्रस्तुते सतीत्यर्थः । वैिधिना कर्त्रा रूपोच्चयेन चंद्रादिनानावस्तुवर्तिकांतिसमूहेन निवेश्य विन्यस्य यत्र विन्यासक्रियाया-