पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( १२१ )
टीकाद्वयसहितम्।


( इति निष्क्रान्ताः सर्वे )

इति प्रथमोऽङ्कः

निष्क्रान्ताः सर्व इति । तदुक्तं दशरूपके -' एकाहाचरितैकार्थमित्थमासन्ननायकम् । पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः ।।' इति ।अत्र च तपोवनसंरोधस्य प्राप्तत्वात्स च नाटके साक्षान्न निदर्शनीयः ।अङ्कान्ते निबद्धव्य इत्यत्राङ्कसमाप्तिः । तदुक्तं दशरूपकं --' दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् । संरोधं भोजनं स्नानं सुरतं चानुलेपनम् । शस्त्रस्य ग्रहणादीनि प्रयक्षाणि न निर्दिशेत् ॥ ’ इति । अङ्क-


ध्येति भावः । तेन राज्ञा निर्वेदो मतिश्च । यद्वा । अपरिमिनमुकुतातिशयवतः पुंस एव दाकुन्नलालाभः । तेनैव सा स्मर्तुं योग्येति प्रतीयते यदि स्वस्यापि सुकृतविशेषोऽस्ति तर्हि तस्याः संभाषणादेः कथं विघटना जादेति भावः । तेनालभ्यवस्त्वनभिधानेन राज्ञो पीडा व्यज्यते । धावति चिरपरिचयदृढसौहार्देन विश्लेषासहमिव त्वरितं धावति । परिचितस्य तत्सहवासं प्रति गमनं संभाव्यमिति तदुपपत्तिमाह असंस्तुतमिति । असंस्तुतमपरिचितम् " संस्तवः स्यात्परिचये " इत्यमरः । उत्तमनायिकाया ललित विलोकनादीनां स्वाभाविकत्वेनापि संभवात्तेषु स्वविषयत्वेन चिरसहवासाभायात्सम्यङ्न । परिचितमित्यसंस्तुतमित्युक्तम् । धावतीति वर्तमानप्रयोगेण दुर्घत्वं निश्चित्य मया निवर्त्यमानमपि तस्याः साकृतवलोकनमंदगमनचेष्टाविशेषाणां स्वाभाविकमनोहरत्वाद्रस्तुसौदर्यबलान्न निवर्तते । किं तु तद्विषये स्वारसिकवृत्तीति व्यज्यते । किंच असंस्तुतं चेतो धावत्यनेन शकुन्तलाकृतानां चेष्टाविशेषाणां स्वविषयत्वेन चिरपारिचयं कृत्वा सम्यक् ज्ञातुं धावदि वेत्युत्प्रेक्षा ध्वन्यते । अत्र शकुन्तलादुष्यन्तयोः पृथग्देशगमनेन वस्तुविच्छेदे सत्यसंस्तुतं चेतो धावतीत्यनेन स्वातःपुरयुवतीर्विहाय शकुन्तला प्रति गच्छतीति चित्तासंगस्य पुनस्तत्प्राप्तर्थकयत्नकरणे । हेतुत्वाद्विंदुरित्यनुसंधेयम् । तदुक्तम्-" बीजत्वाद्वीजमादौ स्यात्फलत्वात्कार्यमंतरः । तयोः संधानहेतुत्वाग्मध्ये बिन्दुं मुहुः क्षिपेन ॥ " इति भावप्रकाशेऽप्युक्तम् " फले प्रधाने विच्छिन्ने वीजस्या- वान्तरैः फलैः। तस्याविच्छेदको हेतुर्विदुरित्याह कौहलः ।।' इति । शरीरस्य पुर: मंदगमनं चित्तस्य पश्चात्त्वारतगमनं च दृष्टांतमाह चीनांशुकमित्यादिना । प्रतिवातं वाताभिमुखं नीयमानस्याकृष्यमाणस्य केतोध्वेंजस्य “ केतुर्द्युतौ पताकायां गृहोत्प्रातादिलक्ष्मसु “ इति विश्वः । चीनांशुकमिव पट्टवस्त्रमिव । पट्टवस्त्रं यथातिश्लक्ष्णं निर्मलं च तद्वत्स्वचित्तमपि कठिनं स्वच्छं चेति भावः । यथा ध्वजदंडे दृढस्यूतं वस्त्रं वातो वलादाकर्षति तद्वत्स्वांतःपुरयुवतिषु विक्षिप्तं चितं शकुन्तला स्वस्य रूपलावण्यादिवाहुल्येन तासु वैमनस्यं संप्राश्चकर्षतीति भावः । केचिच्चीनांशुकं चीनदेशौद्रवं वस्त्रमिति वदति इति ।