पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १२० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ ३३ ॥


समर्थितं भवति । सहैवेति लज्जा ध्वनिता । गच्छतीति । शरीरं पुरोऽग्रे गच्छति ।[ चेतः] पुनः पश्चाच्छकुन्तलाभिमुखं धावति । [ शरीरं ] तु शनैर्गच्छति । संबन्धेऽसंबन्धलक्षणासंबन्धे संबन्धलक्षणा च द्वय्यतिशयोक्तिः । असंस्तुतं शरीरेणापरिचितमिवेति गम्योत्प्रेक्षा । ‘ संस्तवः स्यात्परिचयः ’ इत्यमरः । प्रतिवातं वातसंमुखं नीयमानस्य केतोर्ध्वजस्य चीनदेशस्थं वस्त्रं चीनांशुकं तदिव । तस्यातिसूक्ष्मत्वादल्पेऽपि वाते वाताभिमुखे ध्वजे तत्पश्चादेव गच्छतीति | वृत्य नुप्रास उपमा । अनया च हृदयशून्यत्वात्परेण नीयमानकाप्वतुल्यत्वं शरीरस्य ध्वनितम् । चीनपदोपादानाच्चेतसोऽतिचाञ्चल्यं चेति ।


शता कुत इति भावः । अनेन उपनतेषु चित्तेष्वपि विषयेषु तत्तत्प्रवृत्तेरसंभव क्तः तदेवोपपादयति मम हीत्यादिना । मम दृढचित्तत्वेन प्रसिद्धस्य मे हि यस्माद्धेतोः । यद्वा ममेत्यनेन "रत्नहारी तु पार्थिवः " इति न्यायेन स्वसंपादितलोकोत्तरबहुत्ररित्यपरिभाविनो ममेत्यर्थः । तादृशस्यापि शकुन्तलानिमित्तकचित्तचांचल्यकथनेन शकुन्तलारूपलावण्यादेरदृष्टाश्रुतपूर्वत्वं व्यज्यते । अनेनानुरागप्रसिद्धेर्वस्तुसौंदर्यप्रायस्यमुक्तम् । हिशब्दोऽप्यर्थकः ममापीत्यर्थः ॥ गच्छतीति ॥ शरीरं वपुः अत्र शरीरशब्दप्रयोगेण शीर्यत इति शरीरमिति शकुन्तलालिंगनाद्यसंभवाद्भाग्यहीनमिति शरीरं प्रति जुगुप्सा व्यज्यते । देहसद्भावस्थ तादृशशकुन्नलालिंगनादिमत्वेन सफलत्वमिति भावः । तदभावात्स्वव्यतिरिकमिव शरीरमिति प्रयुक्तम् । नत्वमिति प्रयुक्तमिति भावः । पुरः अग्रतः सेनां प्रतीत्यर्थः । अत्र सेनां प्रतीति वक्तव्ये सेनाशब्दस्यानुच्चारितत्वात्तदागमनेन शकुन्तलासंभाषणादेर्विघटनं जातमिति सेनां प्रति निंदासूया च ध्वन्यते । अतस्तदभिधानं नोचितमिति राज्ञोऽवहित्था कथिता । गच्छतेि उदासीनता विषयकरस्थलगमनमिव मंदं व्रजति । सेनाजनिताश्रमबाधाया ऋषिशापभीत्या सैन्यनिवारणार्थं त्वरितं धावतीति वक्तव्ये गच्छतीति गमनमात्रार्थकशब्दप्रयोगेण बुद्धिपूर्वकं न गच्छति किं त्ववशमेव मन्दं व्रजतीति द्योत्यते । मुस्थचित्तस्यैव करचरणादेरुचितानुचितविषयेषु बुद्धिपूर्वकप्रवृत्तिनिवृत्त्योः संभवादिति भावः । अन्यथा बुद्धिपूर्वकगमने तु विप्रलंभे नैश्चित्यप्रसंगादनुचितं स्यात् । तेन गमने पादयोर्वैषम्यंं च व्यज्यते । गच्छतीति वर्तमानव्यपदेशेन गमनोद्योगे कृतेऽपि पादौ न चलत इति द्योत्यते । चेतः सर्वकरणप्रधानभूतं मनः पश्चात् पृष्ठतः शकुंतलां प्रतीत्यर्थः । अत्र शकुन्तलां प्रतीति वक्तव्ये तदभिधानस्याकृतत्वाद्दुर्लभा किमर्थमुच्चरित