केनासीनः सुखमकरुणे नाकरादुद्धृतस्त्वं
विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे ।
यस्मिन्वित्तव्ययभरमहो ग्राहकस्तावदास्तां
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ४६ ॥
न श्वेतांशुवदन्धकारदलनादुद्योतिता रोदसी
नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः ।
नो चिन्तामणिरत्नवत्रिभुवने छिन्ना विपच्चार्थिनां
भूत्वा तस्य हरेरुरःप्रणयिना किं कौस्तुभेनार्जितम् ॥ ४७ ॥
सिन्धुस्तरङ्गैरुपलाल्य फेनान् रत्नानि पङ्कैर्मलिनीकरोति ।
तथापि तान्येव महीपतीनां किरीटकोटीषु पदं लभन्ते ॥ ४८ ॥
सन्त्यन्ये झषकेतनस्य मणयः किं नोल्लसत्कान्तयः
किंवा तेऽपि जनेन भूषणपदं न्यस्ता न शोभाभृतः ।
अन्यः कोऽपि तथापि कौस्तुभमणिः स्फीतः स्फुरद्दीधिति-
र्यः पूषेव नभः समुञ्ज्वलयति स्फारं मुरारेरुरः ॥ ४९ ॥
इक्केण कोत्थुहेण विणा विरयणाय रच्चिय समुद्दो ।
कोत्थुह रयणंपि उरे जस्स वियं सोविहु महग्घो ॥ ५० ॥
यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावीचिभिः
पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव ।
तत्तस्यैव परिक्षयो जलनिधेर्द्वीपान्तरालम्बिनो
रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ५१ ॥
आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तै-
र्विक्रीतं बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटम् ।
संविष्टं शठगाढमूढवदने घूत्कारदूरीकृतं
किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोद(दि)ति ॥५२॥