अये मुक्तारत्न प्रचल बहिरुद्योतय गृहा-
नपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान्
किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे,
महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥ ५३ ॥
अथ सुवर्णस्य ।
हा हेम किं न तत्रैव विलीनो दहनोदरे ।
पाषाणशकलाधीनो यद्गुणग्रामनिर्णयः ॥ ५४ ॥
अग्निदाहे न मे दुःखं न दुखं ग्रावघर्षणे ।
एकमेव महद्दुःखं गुञ्जया सह तोलनम् ॥ ५५ ॥
अथ पित्तलस्य ।
रे रङ्ग हेमकलया तुलितोऽसि नूनं
मानं जहीहि किमु पश्यसि नो विशेषम् ।
स्वर्णं हि रत्नखचितं नृपशेखरेषु
त्वं पाप पामरवधूचरणेषु लीनः ॥ ५६ ॥
धूलिर्मूलपदार्थसार्थजननी स्तम्भाधवष्टम्भदा
लेखाश्लेषकरी करीश्वरकरासङ्गिन्यवश्यं प्रिया ।
अग्रे [१]गंन्धमधोः शिशोः सुखकृतिः कालत्रयेऽपि स्थिरा
तस्माद्धूलिसमं न चास्ति किमपि क्षेप्या मुखे पापिनाम् ॥ ५७॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकल भट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां पृथ्वीकायिकान्योक्तिनिरूपकः पञ्चमः परिच्छेदः ॥ ५ ॥
- ↑ कस्तूरिकानाम गन्धधूलिः, षण्डनाम मधुधूलिः, तेन गन्धमधोरग्रे स्थिता । प्राधान्यख्यापनार्थमेतत्कथनमिति.