पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
अन्योक्तिमुक्तावली ।

षष्ठः परिच्छेदः ।

 विलोकयन्ति ये स्वांमिंस्त्वदीयं वदनाम्बुजम् ।
 ते भवन्ति भवत्तुल्या विभूत्या पार्श्वतीर्थप ॥ १ ॥
 यस्य दृष्टिसुधावृष्टिसिक्तः सर्पो बभूव च ।
 नागराजो नागकुले स पार्श्वः श्रेयसेऽस्तु वः ॥ २ ॥

स्वस्तिकबन्धचित्रम् ।


 भद्राय मम वामेय भव त्वममलद्युतिः ।
 भवकाननमातङ्ग भविलोककजांशुमान् ॥ ३ ॥
 सिद्धयेऽस्तु महावीर महावीरजगद्विभुः ।
 यो विजित्य रणे रागाद्यरीन्वव्रे जयश्रियम् ॥ ४ ॥

बीजपूराकृतिचित्रम् ।


 देव त्वं संपदं धीर देयाः कल्याणसागर ।
 देवेन्द्रार्चितपत्सार देशनो ज्ञातजादर ॥ ५ ॥

रीत्यन्तरेण मुरजबन्ध्यचित्रम् ।


 नित्यनम्र सुपर्वेश सुखाय शुभदायकः ।
 वर्धमानबरोदार रदादार सतां भव ॥ ६ ॥
 श्रीमत्तपागच्छस्वच्छसुरशैलसुरद्रुमम् ।
 विजयानन्दसूरीशं स्वगुरुं प्रणिदध्महे[१] ॥ ७ ॥

अथ प्रतिद्वारवृत्तानि ।


 अथाभिव्यक्तये ब्रूमः प्रतिद्वारान्यथाक्रमम् ।
 स्पष्टं षष्ठपरिच्छेदे दक्षलक्षमुदां प्रदे ॥ ८ ॥
 आदौ यादोनिवासोक्तिः पारावारवरोक्तयः ।
 क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ॥ ९ ॥
 स्फारकासारसाधूक्तिः पद्मपद्माकरोक्तयः ।
 कूपकोक्तिः पावकोक्तिः कज्जलध्वजपद्धतिः ॥ १० ॥


  1. प्रणिधानविषयीकर्महे आयाम इत्यर्थः