पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा-
 दन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ३९ ॥
यामस्ते शिवमस्तु रोहणगिरे मत्तः स्थितिप्रच्युता
 वर्तिष्यन्त इमे कथं कथमपि स्वप्नेऽपि मैवं कृथाः ।
भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्ततः
 किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ४० ॥
उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः
 साकाङ्क्षं लुठितो न च स्तनतटे लीलावतीनां क्वचित् ।
कष्टं भोश्चिरमन्तरेव जलधेर्दैवाद्विशीर्णोऽभव-
 त्खेलद्व्यालकुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः ॥ ४१ ॥
पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्रपाश्चात्यसङ्घै-
 रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि मणिक्यमेकम् ।
यद्येतस्मिन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्यः
 प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ४२ ॥
ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःखण्डकं
 ते दृष्टाः प्रतिधाम दग्धमनसो विच्छिन्नसंख्याश्चिरम् ।
नो जाने किमभावतः किमथ वा दैवादहो श्रूयते
 नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ४३ ॥
 पथि परिहृतं कैश्चिद्दृष्ट्वा न जातु परीक्षितं
  विधृतमपरैः काचं मत्वा पुनः परिवर्जितम् ।
 गवलगलनामन्यैः कृत्वा प्रघृष्टमपण्डितै-
  र्मरकतमहो मार्गावस्थं कथं न बिडम्बितम् ॥ ४४ ॥
 वणिगधिपते किंचिद्ब्रूमस्त्रपामिह मा कृथाः
  कथय निभृतं केयं नीतिः पुरे तव संप्रति ।
 मरकतमणिः काचो वायं भवेदिति संशये
  लवणवणिजां यद्व्यापारः परीक्षितुमर्पितः ॥ ४५ ॥