पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।

  ये संतोषसुखप्रवुद्धमनसस्तेषां न भिन्ना मुदो
   येप्यन्ये धनलोभसंकुलधियस्तेषां न तृष्णा हता ।
  इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
   स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १४ ॥
  मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं
   करीन्द्रं पौलोमीपतिरपि च लेभे जलनिधेः ।
  त्वया किंवा लब्धं कथय मथितो मन्दरगिरे
   शरण्यः शैलानां यदयम[१]दयं रत्ननिलयः ॥ १५ ॥

अथ हिमालयस्य ।


  विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत् ।
  ईश्वरश्वशुरताप्रभावतस्तद्ध्रुवं जगति जृम्भते यशः ॥ १६ ॥

अथ मैनाकस्य ।


  शक्रादरक्षि यदि पक्षयुगं तथापि
   [मै]नाक सन्ति तव नेह गतागतानि ।
  निःसत्त्वता च निरपत्रपता च किंतु
   पाथोनिधौ निपतता भवतार्जिता च ॥ १७ ॥

अथ पूर्वाचलस्य ।


  इक्कुच्चिय उदयगिरी जयन्तु चूडामणी भुवणमज्झे ।
  जोसीसे काऊणं मित्तं उदयं करावेइ ॥ १८ ॥

अथ विन्ध्यभूधरस्य ।


  आचक्ष्महे बत किमद्यतनीमवस्थां
   तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
  यत्रैव सप्त मुनयस्तपसा निषेदुः
   सोऽयं विलासवसतिः पिशिताशनानाम् ॥ १९ ॥


  1. मददादिति प्रतिभाति.