पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

शरबन्धचित्रम् ।


  वयं स्मरामस्त्रिशलातनूजं सिद्धार्थसंतानकुलप्रदीपम् ।
  न हावभावैर्मरुदङ्गनाभिर्मनो यदीयं विशदं प्रभिन्नम् ॥ ५ ॥
  [१]श्रीदातारं विश्वाधारं बुद्ध्यासारं नित्योदारम् ।
  चञ्चद्बेरं वन्दे वीरं भूभृद्वीरं क्षेमागारम् ॥ ६ ॥

अष्टदलकमलबन्धचित्रमिदम् ।


  श्रीविजयानन्दगुरुं विजयानन्दमन्दिरम् ।
  भूरि भूरिशिरोरत्नं महोदयमभिष्टुमः ॥ ७ ॥

अथ प्रतिद्वारवृत्तानि ।


  प्रतिद्वारक्रमं चञ्चत्सच्चमत्कारकारकम् ।
  विरच्यते पञ्चमेऽथ परिच्छेदे पटीयसि ॥ ८ ॥
  सामान्यभूधरान्योक्तिर्मन्दरोक्तिस्ततः परम् ।
  हिमाद्र्यन्योक्ति[मै]नाकान्योक्तिपूर्वाचलोक्तयः ॥ ९ ॥
  ततो विन्ध्याचलान्योक्तिर्मलयाद्रेः सदुक्तयः ।
  रोहणोर्वीधरान्योक्ती रत्नस्यान्योक्तयस्तथा ॥ १० ॥
  मञ्जुमुक्ताफलान्योक्तिः सुवर्णोक्तिस्ततः परम् ।
  पित्तलोक्तिः समाख्याता धूल्युक्तिरपरा मता ॥ ११ ॥

अथ पृथ्वीकायपद्धतौ पूर्वं सामान्यपर्वतस्य ।


नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः
 शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमिव तुहिनं दिङ्मुखेषु क्षिपन्तः ।
येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पिताना-
 माकाशे विप्रकीर्णः कुसुमचय इवाभाति ताराग्रहौघः ॥ १२

अथ मेरोः ।


 धिक्कनकं तव कनकगिरे यस्य न जगदुपभोगः ।
 वरमन्ये गिरयो येषां तृणकाष्ठाद्युपभोगः ॥ १३ ॥


  1. अनुष्टुब्जातौ विद्युन्मालाछन्दः.