पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२
काव्यमाला ।

 यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कुरु ।
 केतकीकुसुमगन्धमोहितो नान्यतो रतिमुपैति षट्पदः ॥ ५१ ॥
 मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु ।
 घनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ५२ ॥
 अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे ।
 इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ ५३ ॥
 दग्धा सा बकुलावली कवलितास्त्वेते रसालद्रुमाः
  प्लुष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः ।
 भ्रातर्भृङ्ग दवाग्निना वनमिदं वल्मीकशेषं कृतं
  किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दायते ॥ ५४ ॥
 दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो
  नो जिघ्रत्यपि पाटलापरिमलं चूते न धत्ते रतिम् ।
 मन्दारेऽपि न सादरो विचकिलामोदेऽपि संतप्यते
  तन्मन्ये क्वचिदङ्ग भृङ्ग तरुणेनास्वादिता मालती ॥ ५५ ॥
 अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः ।
 न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥ ५६ ॥
  ये वर्धिताः करिकपोलमदेन भृङ्गाः
   प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः ।
  ते सांप्रतं प्रतिदिनं गमयन्ति कालं
   निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ५७ ॥
 अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे ।
 विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ५८ ॥
 अपि दलन्मुकुले बकुले यया पदमदायि कदापि न [१]तृष्णया ।
 अहह सा सहसा विमुखे विधौ मधुकरी बदरीमनुवर्तते ॥ ५९ ॥
  पादेनापहता येन जातीलुब्धेन मल्लिका ।
  अहो दैवादलेस्तस्य बदर्यपि सुदुर्लभा ॥ ६० ॥


  1. 'हेलया' इति पाठान्तरम्.