अलिरयं नलिनीवनमध्यगः कुमुदिनीमकरन्दमदालसः ।
[१]विधिनिदेशविदेशनृपागतः कुटजपुप्परसं बहु मन्यते ॥ ६१ ॥
येनामोदिनि पङ्कजन्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सोऽयं भृङ्गयुवा करीरविटपे वध्नाति तुष्टिं कुतः ॥ ६२ ॥
इह सरसि सहर्षं मञ्जु गुञ्जाभिरामं
मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।
अनुपममकरन्दामोददप्रमोदा
त्यजति [तव] (वत) न निद्रां मालती यावदेषा ॥ ६३ ॥
एनाममन्दमकरन्दविनिद्रविन्दु-
संदोहदोहदपदं नलिनीं विमुच्य ।
हे मुग्ध षट्पद निरर्थकरागभाजि
जातं मनस्तव जपाकुसुमे किमत्र ॥ ६४ ॥
निराचष्टे यष्टिं कुरबकतरोरब्जसरसा-
मसद्भावं ब्रूते वदति बकुलानामकुशलम् ।
वनान्ते चूतानामभवनमिहाख्याति वसति-
मसौ झिञ्झीझाटे झटिति घटमानो मधुकरः ॥ ६५ ॥
निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
रसाले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नो सङ्गं रचयति न चूते विचरति
स्मरँल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ६६ ॥
अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये
वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।
अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहती-
र्येनानेकपगण्डमण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ ६७ ॥
- ↑ 'विधिवशात्परदेश' इति पाठान्तरम्.