अथ भ्रमरान्योक्तयः ।
मधुकर तव करनिकरैः किं किं क्रान्तं न कुसुमानाम् ।
तद्वत्सरसिजमुकुले लब्धं किंचित्तदन्यतत्सत्किम् ॥ २६ ॥
गौरीं चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे ।
शाल्मलिकुसुमदलेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २७ ॥
कृत्वापि कोशपानं भृङ्गयुवा पुरत एव कमलिन्याः ।
अभिलषति वकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ २८ ॥
सुरतरुकुसुमे मधु मधुरं यन्मधूपेन निपीतम् ।
सत्प्रयतोऽपि करीरतरौ लभतां कथमविगीतम् ॥ २९ ॥
भ्रमन्वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता गरीयसी केवलमीश्वरेच्छा ॥ ३० ॥
भ्रमर भ्रमता दिगन्तराणि क्वचिदासादितमीक्षितं श्रुतं वा ।
वद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम् ॥ ३१ ॥
अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः ।
भ्रमति मधुकरोऽयमन्तराले श्रयति स पङ्कजिनीं कुमुद्वतीं वा ॥ ३२ ॥
द्विजपतिदयितां तां व्यक्तपुष्पां प्रदोषे-
ऽप्यहह कुमुदिनीं किं भृङ्ग भुङ्क्षे स्वधार्ष्ट्यात् ।
मलिन मधुप मन्ये त्वय्यदः सर्वमर्हं
विहितमविहितं वा चिन्तयेत्को हि लोलः ॥ ३३ ॥
नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं
वासन्तीं वसते न चन्दनवनीमालम्वते न क्वचित् ।
जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां
ध्यायन्निर्वृतिमेति षट्पदयुवा योगीव वीतभ्रमः ॥ ३४ ॥
केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।
दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ ३५ ॥
अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।