किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा ।
रम्यं वा गगनेन किं विहरणं किंतूग्रकाकावली-
पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ १४२ ॥
यत्नादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् ।
यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ १४३ ॥
पीऊण पाणियं सखरम्भि पिट्ठिं नदिन्तिसि हिडिम्भा ।
होही जाण कलावो पयइच्चिय साहएताण ॥ १४४ ॥
अथ चक्रवाकान्योक्तयः ।
कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा
व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् ।
इति विहगसमूहान्नित्यमेवास्ति पृच्छन्
रजनिविरहभीतश्चक्रवाको वराकः ॥ १४५ ॥
अस्तं गतोऽयमरविन्दवनैकबन्धु-
र्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् ।
हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥ १४६ ॥
मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् ।
चक्राङ्गेन वियोगिना बिसलता नास्वादिता नोज्झिता
चक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १४७ ॥
वापीतोयं तटतरुवनं पद्मिनीपत्रशय्या
चन्द्रालोको विकचकुमुदामोदहृद्यः समीरः ।
यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्ना
तत्रोपायः क इह भवतु प्राणसंधारणाय ॥ १४८ ॥