येनानन्दमये वसन्तसमये सौरभ्यहेलामिल-
द्भृङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः ।
आः कालस्य वशेन कोकिलयुवा सोऽप्यद्य सर्वा दिशः
खेलद्वायसचञ्चुघातविदलन्मूर्धा मुहुर्धावति ॥ १०० ॥
कचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः
क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः ।
क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना
कथंकारं तारं रसति चकितः कोकिलयुवा ॥ १०१ ॥
उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि
कां कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले ।
सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटवः
क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ १०२ ॥
यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
व्यग्राणि ग्रथयन्ति मन्मथकथां चित्तानि चैत्रोत्सवे ।
रे रे काक वराक साकममुना पुंस्कोकिलस्याधुना
स्पर्धाबन्धमुपेयुषस्तव नु किं लज्जापि नोजागरा ॥ १०३ ॥
हे कोकिल क्षपय कालमलालसत्वं
वाचंयमत्वमवलम्ब्य कियद्दिनानि ।
श्रीखण्डशैलसुहृदः प्रसरन्ति याव-
त्ते वायवः सहचराः सहकारलक्ष्म्याः ॥ १०४ ॥
मा कलकण्ठ कलध्वनिमिह मिहि[१]रमहीरुहस्य मूर्ध्नि कृथाः ।
[२]मूलमिमं कथयिष्यति जडो जनस्तव गिरां सुतराम् ॥ १०५ ॥
रे बालकोकिल करीरमरुस्थलीषु
किं दुर्विदग्धमधुरध्वनिमातनोषि ।
अन्यः स कोऽपि सहकारतरुप्रदेशो
राजन्ति यत्र तव विभ्रमभाषितानि ॥ १०६ ॥
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७२
दिखावट
पुटमेतत् सुपुष्टितम्
६४
काव्यमाला ।