कलकण्ठ यथा शोभा सहकारे भवद्गिरः ।
खदिरे वा पलाशे वा किं तथा स्याद्विचारय ॥ ८९ ॥
पक्कं चूतफलं भुक्त्वा गर्वान्नायाति कोकिलः ।
पीत्वा कर्दमपानीयं भेको भकभकायते ॥ ९० ॥
साधु साधुकृतं मौनं कोकिले प्रावृषि त्वया ।
दर्दुरा यत्र भाषन्ते कथं तव सुभाषितम् ॥ ९१ ॥
न विना मधुमासेन अ(ह्य)न्तरं पिककाकयोः ।
वसन्ते च पुनः प्राप्ते काकः काकः पिकः पिकः ॥ ९२ ॥
रसालशिखरासीनाः सन्तु सन्तु पतत्रिणः ।
तन्मञ्जरीरसास्वादबिन्दुरेकः कुहूमुखः ॥ ९३ ॥
गुणिनं गुणयति गुणवानितरस्तत्र वराकः ।
सहकाराङ्कुररसिकः कोकिल एव न काकः ॥ ९४ ॥
रे रे कोकिल मा भज मौनं किंचिदुदञ्चय पञ्चमरागम् ।
नो चेत्त्वामिह को जानीते काककदम्बकपिहिते चूते ॥ ९५ ॥
अस्यां सखे बधिरलोकनिवासभूमौ
किं कूजितेन खलु कोकिल कोमलेन ।
एते हि दै[१]ववशतस्तदभिन्नवर्णं
त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ ९६ ॥
कोकिल कलप्रलापैरलमलमालोकसे रसाले किम् ।
शरनिकरभरितशरधिः शबरः सरतीह परिसरे सधनुः ॥ ९७ ॥
तवैतद्वाचि माधुर्यं जातं कोकिल कृत्रिमम् ।
यैः पोषितोऽसि तानेव जातपक्षो जहासि यत् ॥ ९८ ॥
मूकीभूय तमेव कोकिल मधु बन्धुं प्रतीक्षस्व हे
हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् ।
यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लस-
त्पांसूत्तम्भभृतो निदाघदिवसाः संतापसंदायिनः ॥ ९९ ॥
- ↑ 'दैवहतकाः' इति पाठः.