पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
काव्यमाला ।

 धिक्तव शुक पठनव्यसनं जातं पञ्जरवासः ।
 वरमन्ये द्विजराजगणस्तिष्ठति यः सुविलासः ॥ ६६ ॥
 अये कीरश्रेणीपरिवृढ वृथा वासरशतं
  किमर्थं व्यर्थं त्वं क्षपयसि पलाशे रभसतः ।
 यदा पुष्पारम्भे मुखमलिनि किं किंशुकतरो-
  स्तदैवं विज्ञातं फलपरिचयो दुर्लभ इति ॥ ६७ ॥
 उच्चैरेकतरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः
  पक्कं शालिवनं विहाय जडधीस्तां नालिकेरीं गतः ।
 तत्रारुह्य बुभुक्षितेन मनसारम्भः कृतो भेदने
  ह्यायासो ननु केवलं विगलितो चञ्चुर्गता कूर्चताम् ॥ ६८ ॥
 इदमकटु कपाटं जर्जरः पञ्जरोऽयं
  विरमति न गृहेऽस्मिन्क्रूरमार्जारयात्रा ।
 शुक मुकुलितजिह्वं स्थीयतां किं वचोभि-
  स्तव वचनविनोदेऽनादरः पामराणाम् ॥ ६९ ॥
 सत्साङ्गत्यमवाप्य यः पुरवने नानारसास्वादव-
  त्कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने ।
 दैवेनास्फुटवाक्प्रपञ्चविहितश्रोत्रस्य तस्याटवीं
  प्राप्तस्यात्मसभाप्रगल्भकविषु स्यान्मौनमेवोचितम् ॥ ७० ।।
 भ्रातः कीर कठोरचञ्चुकषणक्रोधायितैः कूजितैः
  किं माधुर्यनिषिक्तसूक्तिविशदः कण्ठावटुः शोष्यते ।
 श्रीमद्राघवनामधेयमनिशं त्वं ब्रूहि मुक्तिप्रदं
  सेयं दैववशाद्दशा परिणता राजन्यपात्रस्य ते ॥ ७९ ॥
 अमुष्मिन्नुद्याने विहग खल एष प्रतिफलं
  विलोलः काकोलः क्वणति किल यावत्पटुतरम् ।
 सखे तावत्कीर द्रढय हृदि वाचंयमकलां
  न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ७२ ॥