तरौ तीरोद्भुते क्वचिदपि दलाच्छादितवपुः
पतद्धारासारां गमय विषमां प्रावृषमिमाम् ।
निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने
स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ ३५ ॥
रे राजहंस किमिति त्वमिहागतोऽसि
योऽसौ बकः स इह हंस इति प्रतीतः ।
तद्गम्यतामनुपदेन पुनः स्वभूमौ
यावद्वदन्ति बक एष न मूढलोकाः ॥ ३६ ॥
दुष्टं बकोटनिकरोऽपि मरालबुद्ध्या
मानप्रदे जनपदेऽत्र समागतोऽसि ।
तन्मौनमेव कुरु हे कलहंस नो चे-
त्त्वं वक्ष्यसे बक इतीह विमूढलोकैः ॥ ३७ ॥
यो दिव्याम्बुजवृन्दमत्तमधुपप्रोद्गीतिरम्यं सर-
स्त्यक्त्वा मानसमल्पवारिणि रतिं बध्नाति केदारके ।
तस्यालीकसुखाशया परिभवक्षोदीकृतस्याधुना
हंसस्योपरि टिट्टिभो यदि रतिं धत्तेऽत्र को विस्मयः ॥ ३८ ॥
अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका-
वित्यक्तान्बलितन्दुलान्कवलयन्दृष्टोऽसि हृष्टैर्मुखैः ।
एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मभि-
र्व्यधैस्त्वद्विधमुग्धबन्धनविधौ किं नाम नो सूत्र्यते ॥ ३९ ॥
हे हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं
हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रसध्वम् ।
यावन्नार्च्छच्चिरं यो हरगलगरलव्यालजालालिनील-
प्रोन्मीलन्मेघमालामलिनसकलदिङ्मण्डलोऽभ्येति कालः ॥ ४० ॥
स्मरसि सरसि वीचीमम्बुदोलायितानां
तदनु बिसलताग्रं त्वन्मुखाद्यन्मदाप्तम् ।
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६४
दिखावट
पुटमेतत् सुपुष्टितम्
काव्यमाला ।
