पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योक्तिमुक्तावली ।

 कंसारिचरणोद्भुतसिन्धुकल्लोलालितम् ।
 मन्ये हंस सनो नीरे कुल्याया रमते न ते ॥ २७ ॥
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ २८ ॥
यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् ।
अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥ २९ ॥
 अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् ।
 रमते न मरालस्य मानसं मानसं विना ॥ ३० ॥
 भृङ्गाङ्गनाजनमनोहरहारिगीत-
  राजीवरेणुकणकर्णपिशङ्गतोयाम् ।
 रम्यां हिमाचलनदीं प्रविहाय हंस
  हे हे हताश वद कां दिशमुत्सुकोऽसि ॥ ३१ ॥
  [१]स्थित्वा क्षणं वि[२]ततपक्षतिरन्तरिक्षे
  मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
 उत्पन्नमन्युपरिघर्घरनिःस्वनेन
  हंसेन साश्रु परिवृत्य गतं नलीनम् ॥ ३२ ॥
 सरसि बहुशस्ताराच्छाया दशन्परिवञ्चितः
  कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
 न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
  कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ३३ ॥
 वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्वलो
  यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।
 कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेऽप्यक्षमः
  सोऽयं संप्रति हंसको मरुगतः कोष्णं पयो याचते ॥ ३४ ॥


  1. 'स्थित्वा चिरं नभसि निश्चलतारकेण' इति वा पाठः
  2. 'विततपक्षतिनान्तरिक्षे' इत्यपि पाठः.