इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोऽयम् ॥ ४ ॥
नैतास्ता मलयाद्रिकाननभुवः स्वच्छस्रवन्निर्झरा-
स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवन्नातप-
स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम्
स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरं-
स्तृषार्तः सारङ्गो विरमति न खिन्नेऽपि मनसि ।
अजानानस्तत्त्वं न स मृगयतेऽन्यत्र सरसी-
मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ६॥
अयि कुरङ्ग कुरङ्गमविक्रमैस्त्यज वनं जवनं गमनं कुरु ।
इह वने हि वनेचरनायकाः सुरभिलोहितलोहितसायकाः ॥ ७ ॥
छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां
पर्यन्ताग्निशिखाकलापजटिलान्नि[१]र्गत्य दूरं वनात् ।
व्याधानां शरगोचरा[२]दतिजवादुत्प्लुत्य धावन्मृगैः
कूपान्तःपतितः [३]करोतु विमुखे किं वा विधौ पौरुषम् ॥ ८ ॥
असकृदसकृन्नष्टां नष्टां मृगो मृगतृष्णिकां
श्रमपरिगतोऽप्युत्पक्ष्माक्षः परैति पुनः पुनः ।
गणयति न तन्मायातोयं हतः सलिलाशया
भवति हि मतिस्तृष्णान्धानां विवेकपराङ्मुखी ॥ ९॥
द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे
किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे ।
विदधति हठाद्व्याधानां ते मनागपि नार्द्रतां
कठिनमनसामेषामेते विलोकितविभ्रमाः ॥ १० ॥५॥
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४६
दिखावट
पुटमेतत् सुपुष्टितम्
३८
काव्यमाला ।
