पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
अन्योक्तिमुकावली।

 संकल्पानुविधायि यस्य फलितं कस्तस्य धत्ते तुलां
  धिरजातिं Xनसंकथासु यदयं कल्पद्रुमोऽपि द्रुमः ॥ १९९ ॥

अथ पारिजातस्य ।


 परिमलसुरभितनभसो बहवः कनकाद्रिपरिसरे तरवः |
 पतदपि सुराणां चेतसि निवसितमिह पारिजातेन ॥ २०० ॥

इति श्रीमत्तपागच्छाधिराज-श्रीगौतमगणधरोपनगुणगमाज-सकलभट्टारकवृन्दवृन्दारक-वृन्दारकराज-परमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणि- समुच्चितायामन्योक्तिमुक्तावल्यां देवान्योक्तिनिरूपकः प्रथमः परिच्छेदः ॥

द्वितीयः परिच्छेदः ।

 श्रेयः श्रियां विलसनोल्लसदालयस्य
  यस्येशितुः शिरसि भान्ति फणात्फणीनाम् ।
 किं मङ्गिनीसमुदयः कृपया धृतोऽयं
  संसारसागरपतज्जनतावनाय ॥ १ ॥
 श्रेयः श्रियामाश्रयमङ्घ्रिपद्मं यदीयमङ्कच्छलतो मृगारिः।
 समाश्रितो वक्तुमिदं मदीयं पशुत्वमश्लाघ्यमपाकरोतु ॥ २ ॥
  स्तोप्ये [१]श्रीविजयानन्दस्वगुरुं गरिमाम्बुधिम् ।
  सर्ववर्यवराचार्यमौलिमौलिमणिप्रभम् ॥ ३ ॥

अथ प्रतिद्वारवृत्तानि ।


  द्वितीयपरिच्छेदेऽथ प्रतिद्वाराणि प्रस्फुटम् ।
  [२]कोमलामलवृत्तानि निगद्यन्ते यथाक्रमम् ॥ ४ ॥
  सिंहस्यान्योक्तयो ज्ञेया गजस्यान्योक्तयस्तथा ।
  मृगान्योक्तिः शशान्योक्तिः फेरूक्तिः करभोक्तयः ॥ ५ ॥
  वृषभान्योक्तयस्तद्वद्भषणान्योक्तयस्ततः ।
  सर्पान्योक्तिस्तथैवोक्ता शेषनागोक्तयः पुनः ॥ ६॥
  अथोच्येते जलधरप्रतिद्वारद्वयं क्रमात् ।
  मत्स्यस्यान्योक्तयो मुख्या मण्डूकान्योक्तयो मताः ॥ ७ ॥


  1. अयं श्रीशब्दः पूज्यत्वसूचकःश्
  2. कोमलान्यकठोराणि मुखोच्चार्याण्यमलानि व्यर्थाक्षररहितानि वृत्तानि पद्यानि येषु तानि कोमलामलवृत्तानि.