मुञ्च मुञ्च सलिलं कृपानिधे नाथ नास्ति समयो विलम्बने ।
अद्य चातककुटुम्बके मृते वारि वारिधर किं करिष्यसि॥ १८५ ॥
नभसि निरवलम्बे [१]सीदता दीर्घकालं
त्वदभिमुखनिषण्णोत्तानचञ्चूपुटेन ।
जलधर जलधारा दूरतस्तावदात्तां
ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ १८६ ॥
विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो
जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः ।
उपकृतिकृते प्रह्वं चेतः कुरुष्व यदग्रतो
भ्रमति पवने क्व त्वं क्वायं क्व ते जलसंचयः ॥ १८७ ॥
भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
[२]पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं
यत्राकण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ १८८ ॥
अथ प्रकाशवर्षान्योक्तयः ।
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् ।
अये पश्यावस्थामकरुण समीरव्यतिकर-
ज्वलद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ १८९ ॥
शोषं गते सरसि शैवलमञ्जरीणा-
मन्तस्तिमिर्लुठति तापविसंस्थुलाङ्गः ।
अत्रान्तरे यदि न वारिद वारिवृन्दै -
राप्लावयेस्तदनु किं मृतमण्डनेन ॥ १९० ॥
कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय
स्फारैर्भापय गर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय ।