तावन्नीतिसुकीर्तिरीतिविमला तावच्च देवार्चनं
यावत्त्वं प्रतिवत्सरं जलधर क्षोणीतले वर्षसि ॥ १६१ ॥
शालेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च
श्रीखण्डेषु विभीतकेषु च तथा पूर्णेषु रिक्तेषु च ।
स्निग्धेन ध्वनिनाखिलेऽपि जगतीचक्रे समं वर्षतो
वन्दे वारिदसार्वभौम भवतो विश्वोपकारिव्रतम् ॥ १६२ ॥
नीहाराकरसारसागरसरित्कासारनीरश्रियं
त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता ।
तस्यैतत्फलितं समुन्नतशिलासंताडनं मस्तके
गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥ १६३ ॥
क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः
स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।
दुःपूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो
जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ १६४ ॥
अन्योऽपि चन्दनतरोर्महनीयमूर्तेः
सेकार्थमुत्सहति तद्गुणबद्धतृष्णः ।
शाखोटकस्य पुनरस्य महाशयोऽय-
मम्भोद एव शरणं यदि निर्गुणस्य ॥ १६५ ॥
अये वेलाहेलाकुलितकुलशैले जलनिधो
कुतो वारामोघं बत जलद मोघं वितरसि ।
समन्तादुत्तालज्वलदनल[१]कालाकवलित-
क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥ १६६ ॥
दूरं नीरं तदपि विरसं जङ्गमा नो लताद्या-
स्तस्मिन्दातर्यपि जलनिधौ को लभेताम्बुबिन्दुम् ।
दानाध्यक्षे त्वयि जलधर क्वापि कुत्रापि शैलाः
शालावन्तोऽमृतनिभजलैस्तर्पिताः सर्व एते ॥ १६७ ॥
- ↑ 'कीलाकवलन' इति वा पाठः.